चूडामणिश्शिरोरत्ने तरलो हारमध्यगे।
पर्यङ्कश्शयने प्रोक्त आवेशश्चापि वेश्मनि॥ ११०॥
द्वितीयं यथा— (काव्याद. २.२३४)
मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः।
उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः॥ १११॥
अनुकार्यो द्विधा— अर्थवाननर्थश्च।
उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्त्या।
हुंहु मुञ्च मममेति च मन्दं जल्पितं जयति मानवतीनाम्॥ ११२॥