किमवोचः, शब्दाख्यविशेषणानुरक्तस्य तस्य स्वरूपमन्यथाख्यातुं न शक्नोमि, शब्दापरित्यागलब्धप्रकाशयैव च तदनुभूत्यानुभवामि?
तर्हि शब्दात् पृथगर्थतत्त्वस्य व्यपदेष्टुमनुभवितुं चाशक्यत्वाच्छब्दस्यैवाय— मध्यासो विवर्तो विपरिणामो वार्थो नाम, नान्यः कश्चिदिति निश्चीयताम्। युक्तं चैतत्। न हि निरूपयन्तोऽपि शब्दाद् विभिन्नमर्थतत्त्वमुपलभामहे। अन्येऽपि चैवमाहुः—(प्र.वा. २.३५४)
अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः।
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते॥ १००॥
ग्रहीतृग्रहणग्राह्यमायापथपरिच्युताम्
नमामः परमानन्दज्योतीरूपां सरस्वतीम्॥ १०१॥
उच्यते एकस्य तत्त्वादप्रच्युतस्य सन्निवेशविशेषादिभिरसत्यप्रविभक्तान्य— रूपोपग्राहिता विवर्तः।