सद्वंशान् पृथुवर्ष्मविक्रमबलान् दृष्ट्वाद्भुतान् दन्तिनो हासस्मेरगुहामुखादभिमुखं निष्क्रामतः पर्वतात्।
एकस्यापि विधूतकेसरसटाभारस्य भीता मृगा गन्धादेव हरेर्द्रवन्ति बहवो, वीरस्य किं संख्यया॥ १३९॥
५३. (४.१४) संवरण यथा तापसवत्सराजे— पद्मावत्या स्विकायां वत्सराजप्रतिकृतौ दर्शितायां
वासवदत्तां स्वगतमाह— कहं अय्यउत्तो ! अइ हदहिअअ आलिअं महाणुभावं अत्तअ चे(पे)क्खस्सं तं खिव्वंतं मन्दभाइणिं आआसेसि। (कथमार्यपुत्रः! अयि हतहृदय! आलिखितं महानुभावम् X X X X (?) मन्दभागिनीमायासयसि ?) इति ससंवरणमास्ते।
पद्मावती— पिअसहि, किं भणामि णं लज्जावेदि पिअसही एस (मि?) जडापरिग्गहो। (प्रियसखि! किं भणामि, लज्जयति प्रियसखि, एष जटापरिग्रहः।)
वासवदत्ता—कहं ते एसा आकिदी अणणुरूपे अभिरमदि। (कथं तव एषा आकृतिः अननुरूपे अभिरमते ?)
सांकृत्यायनी—(सखेदमात्मगतम्) अहो धैर्यं वत्सायाः, येनेयम्—(ताप. ३.७)
दयितं विलोकयन्ती तद्गतमनसोऽपि हस्तगतमस्याः।
अन्तर्नियमितदुःखा न मनागपि विकृतिमायाति॥ १४०॥