भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 601 to 610 of 2002 verses
४७.(४.८)साहसं यथा— (देवी)चन्द्रगुप्‍ते— स्त्रीवेषनिह्नुतश्चन्द्रगुप्‍तः शत्रोः स्कन्धावारम् अलिपुरं गतवति (शकपति)वधायागमद् इति प्रयोगे दर्शितम्, शकपतिमघातयद् इति च वृत्तं सूचितम्।

४८.(४.९) भयं यथा— वेणीसंहारे नेपथ्ये सूचितम्—'भो भो भयस्खलितकार्मुक— कृपाणतोमरशक्ति(क्तयः) कौरवबलपक्षपाततृणीकृतप्राणद्रविणसञ्चया नरपतयः। संस्तभ्यताम्। निर्हतदुश्शासनपीतशेषशोणितस्नपित— बीभत्सवृकोदरदर्शनपरिस्खलत्प्रहरणानि रणाद् विद्रवन्ति बलानि।' पुनश्च मूर्च्छितदुर्योधनमपवाहयता सूतेनोक्तम्— कथामासन्न एवायं दुरात्मा कौरवद्रुमोत्पातमारुतो मारुतिः! अनुपलब्धसंज्ञश्च तावदत्र महाराजः! भवतु, सुदूरमपहरामि स्यन्दनम्। इत्येवं प्रयोग एव दर्शितम्।

४९.(४.१०) ह्नीर्यथा— तापसवत्सराजे पद्मावती प्रत्याख्यानदुःखादुद्ध‍ृत्यात्मानं व्यापादयन्ती वत्सराजेन निवारिता ह्रिया युक्ता। तत्र हि— (ताव. ४.२०/२१)

विदूषकः— भोदि ! अअं दाव धोअगुग्गुल्लनिबद्धाओ उण्होदएण्ण जडाओ विच्छोलिअ तारिसो एव्व। अहं पुण अणवराधमुंडिदो कुदो तारिसे चंडु X X X X लहिसं। {भवति ! अयं तावद् X X X X गुग (?) X X X X उष्णोदकेन X X X X}

पद्मावती— (लज्जावनतमुखी स्मितं करोति।) पुनश्च कञ्चुकिविज्ञापनया अनुज्ञाता राज्ञा सलज्जा अधोमुखी कञ्चुकिना सह निष्क्रान्ता।

तथा पुंसोऽपि ह्रीर्यथा पार्थविजये— गन्धर्वैः पराजित्य बध्यस्य अर्जुनेन विक्रम्य मोचितस्य दुर्योधनस्य।

तत्र हि दुर्योधनमर्जुन आह— 'न चाहमस्मिन् काले पाण्डवेनाहूत इति मनसि सम्भावनीयम्। यस्माद् अभिन्नमेव आर्ययुधिष्ठिरमहाराजमवगच्छामः, विशेषतोऽस्मिन् काले। पश्‍यतु महाराजः—

स्वैर्वैरे कुरुपाण्डवान्तरकृतो यस्मिन् विशेषोऽस्ति न— स्तस्मिंस्तत् किमसाधु साधु कथमित्यार्या विजानन्ति तत्।

यत्रैकाभिजनान्वये त्वभिभवः क्षत्रस्य तस्मिन् पुन— र्भ्रातॄणां पुरतोऽभियोगसमये पञ्चोत्तरं नः शतम्॥ १३६॥'

दुर्योधनः— (सवैरलक्ष्यमात्मगतम्) हृदय, शिक्षयोत्तरम्। कथमिवैनमालपामि?

Showing 601 to 610 of 2002 verses