यान्तोऽन्यतः प्लुतकृतस्वरमाशु दूरा— दुद्वाहुना जुहुविरे मुहुरात्मवर्ग्याः॥ १८८॥
मुग्धाङ्गना यथा—(गास. २.४५)
सहिआहिं भण्णमाणा थणए लग्गं कुसुंभपुप्फं ति।
मुद्धवहुआ हसिज्जई पप्फोडंती णहवआहं॥ १८९॥
(सखीभिर्भण्यमाना स्तने लग्नं कुसुम्भपुष्पमिति।
मुग्धवधूर्हस्यते प्रस्फोटयन्ती नखपदानि॥)
आक्रोशन्नाह्वयन्ननाधावन् मण्डलं रुदन्।
गाः कालयति दण्डेन डिम्भः सस्यावतारिणीः॥ १९०॥