बाष्पक्लिन्नाविमौ गण्डौ विपूयापाण्डरौ तव।
प्रियोऽग्रे विष्टितः पुत्रि! स्मितवर्चोभिरर्चति॥ १५२॥
प्रत्यार्द्रयन्तो रूढानि मदनेषुव्रणानि नः।
हृदयं क्लेदयन्त्येते पुरीषण्डमहाद्रुमाः॥ १५३॥
वाक्यदोषाः षोडश— शब्दहीनं, पुनरुक्तिमत्, अपक्रमं, भिन्नवृत्तं, यतिभ्रष्टं, विसन्धि, व्याकीर्णं, सङ्कीर्णं, गर्भितम्, अपदम्, अशरीरम्, ऊनोपमम्, अधिकोपमम्, भिन्नलिङ्गं, भिन्नवचनं, श्लेषादिगुणविपरीतं चेति। तेषु—
१. अपशब्दवच्छब्दहीनं यथा— (किराता. ८.२४)
समुच्छ्वसत्पङ्कजकोशकोमलैरुपाहितश्रीण्युपनीवि नाभिभिः।