न च श्रुतिर्लिङ्गवाक्यादि न विरुणद्धि। तत्र श्रुत्या लिङ्गविरोधो यथा—'ऐन्द्रया गार्हपत्यमुपतिष्ठते' (मै.सं. ३.२४); ऐन्द्रया ऋचा इन्द्रप्रकाशनसामर्थ्यलक्षणा— ल्लिङ्गादिन्द्रोपस्थानविनियोगो गार्हपत्यमिति द्वितीयाश्रुत्या बाध्यते; तेनैन्द्रयाप्येतया गार्हपत्यस्यैवोपस्थानं भवति। श्रुत्या वाक्यविरोधो यथा—'पयसा भुङ्क्तां देवदत्तः शृतेन।' अत्र विशेषणविशेष्यभावेन वाक्यप्रापितस्य पयोविषयस्य श्रपणस्यासम्भवेऽपि श्रुतिप्रापितं पयस उपसेचनत्वं न निवर्तते। न चोपसेचनत्वेन यदप्रसिद्धमुदकादिकं, तेन शृतेन श्रपणस्यानुग्रहो भवत्विति युज्यते। श्रुतिवाक्यार्थविकल्पसम्भवे श्रुत्यर्थ एव क्रियते, न वाक्यार्थः, अर्थविप्रकर्षात्। ननु च शृतेनेत्यपि तृतीयान्तमेव। तत्र यथा 'अरुणयैकहायन्या पिङाक्ष्या सोमं क्रीणाति' इत्यारुण्यादयः स्वाश्रयमवच्छिन्दन्तः श्रुत्या क्रयेण सम्बध्यन्ते, तथा श्रपणमपि श्रुत्यैव भोजनेन सम्भन्त्स्यत इति।
विषम उपन्यासः। तत्र हि 'अरुणयैकहायन्या पिङ्गाक्ष्या' इति प्रशस्तगवीविषयाणि विशेषणान्येव श्रूयन्ते, न विशेष्यं शाबलेयादि। ततश्च यैरेवा— साधारणविशेषणैररुणादिभिर्नीलग्रीवत्रिलोचनार्धनारीश्वरादिभिरिव महेश्वरादि विशेष्यं शाबलेयादि यदवगम्यते, नैव तेषां बाधो भवति। तदग्रहे तस्याग्रहणात्। नापि विकल्पः, समुदितानामेवावच्छेदनिमित्तत्वात्। इह तूभयं श्रूयते, विशेष्यं विशेषणं च, पयसेति विशेष्यं, शृतेनेति विशेषणम्। विशेषणविशेष्ययोश्च विकल्पसम्भवे विशेष्यमेवोपादीयते, न विशेषणमिति मृषैवोपालब्धाः स्मः।
अपि च द्विविध इहानुष्ठेयः शब्दार्थः दृष्टविषयोऽदृष्टविषयश्च। तत्रादृष्टविषये यथोक्ताकरणेन मा भूद् विफल इति निवापाञ्जलिप्रदानवदन्यूनाधिक एव अनुष्ठीयते। दृष्टविषये पुनरदृष्टनियमाभावेन शक्यते शक्तिरुल्लङघयितुम्। तत्र नायं नियमो यदुत शृतेनैव पयसा भोक्तव्यं, न चाशृतेन पयसा भुजिक्रिया न निर्वर्तते। न च निर्वृत्ता फलं न निर्वर्तयति। तस्माद् अशृतमपि पय एवोपादीयते, न तु शृतमप्युदकादीति॥
ननु च लिङ्गेनापि श्रुतिबाधो दृश्यते। तद्यथा— पच्यतां पिष्यतामवहन्यता— मतिथिरायात इति। अत्र हि पाकपेषणावघाताः श्रुत्यातिथिविषयतयोपस्थापिता लिङ्गेन पाकपेषणावघातार्हव्रीह्यादिविषयतयोपस्थाप्यन्ते।
अत्रापि ब्रूमः—कामं पुनरिहातिथिविषयां श्रुतिमायुष्मान् मन्यते पच्यतामतिथिरायात इति। तत्र यदि पूर्वाम्, उत्तरस्या विषयो वक्तव्यः। अथोत्तराम्, कथमाद्याः पाकादयोऽतिथिविषया इति?
किं ब्रवीषि? अतिथिविशेषणानुकारित्वेनैकवाक्यभ्रान्तिकारिणा आयात इति पदेन विप्रलब्धोऽसि।
कियदिदं ते, यतोऽद्यापि श्रुत्यर्थमपि ना(व)बुध्यसे। श्रुतिर्हि नामानेकपदनिबन्धन एव शब्दविषयो विध्यादिरर्थः। स च स्वार्थसिद्धये कर्मकरणकर्त्र— धिकरणादिकं यदाक्षिपति स सर्वः श्रुत्यर्थो भवति। तद्यथा अवहन्यतामित्युक्ते व्रीह्यादि, 'सोमं क्रीणाति' इत्युक्ते गवादि, वर्षतीत्युक्ते देवादि, सूर्य उदेतीत्युक्ते प्राच्यादि। तच्च द्रव्यमेव न गुणः। स त्वर्थसामर्थ्यात् सन्निहितोऽपि श्रुतिपदानाक्षिप्तः श्रुतारुणादिशब्दसन्निधाने व्यापारवान् प्रतीयत इति यत्नान्तरप्रापितत्वाच्छुत्यर्थविलक्षणो वाक्यार्थविषयता क्रियाङ्गभावमनुभवति।
तदुक्तम् — (वाप. २.७३, ७४)
सामर्थ्यप्रापितं यच्च व्यक्त्यर्थमनुषज्यते।
श्रुतिरेवानुषङ्गे सा बाधिका लिङ्गवाक्ययोः॥ १०६॥