भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 501 to 510 of 595 verses
(वाप.साधन ३.७.५)

तेषां चोत्पत्तेः प्रभृत्याविनाशात् स वृद्धीराचक्षाणः परानपि तथैव प्रत्याययति। तथा वक्तारो भवन्ति 'गच्छ हन्यते कंसः, किं गतेन, हतः कंस' (मभा.३.१.२६) इति।

अथापरेषां दर्शनम्—

विकल्पयोनयः शब्दा विकल्पाश्शसब्दयोनयः।

तेषामन्योन्यसम्बन्धो नार्थं शब्दाः स्पृशन्त्यमी॥ ९१॥

(न्यायमं.)

तद्यथा—

गुणानुरागमिश्रेण यशसा तव सर्पता।

दिग्वधूनां मुखे जातमकस्मादर्धकुङ्कुमम्॥ ९२॥

अत्रार्धकुङ्कुमेत्युक्ते सौरभादिगुणान्विता।

Showing 501 to 510 of 595 verses