भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 491 to 500 of 595 verses
मायेन्द्रजालप्रख्योऽयं प्रविभागः प्रकल्‍प्यते।

शब्दशक्तिमहिम्नैव निर्विभागेऽपि वस्तुनि॥ ८८॥

अन्ये त्वाहुः—

न वस्तुनोऽधिकं रूपं न शब्दस्याधिकार्थता।

शब्दः शब्दान्तरोपाधेरधिकार्थः प्रतीयते॥ ८९॥

तद्यथा पुरुष इति पुरुषमात्रं, राज्ञ इति शब्दान्तरसन्निधेस्तु स विशिष्टः प्रतीयते पुरुषविशेषोऽयं राजपुरुष इति। एवं भवतिपचतीत्यादावपि पचतीति क्रियामात्रप्रतीतिः, भवतीति तु पदोपाधिः कर्तृशक्तिप्रयुक्ता प्रतीयते।

अपरे तु मन्यन्ते सकलविकल्पोल्लेखविरहितेऽपि वस्तुनि शब्दाः स्वमहिम्नैव नानाविधबुद्धयुत्पत्तिकारणीभूताः शक्तीः सन्निवेशयन्ति, यद्वशादभिन्नरूपमपि वस्त्वन्यथा चावभासत इति। तथा हि कथकः कंसं घातयतीत्युक्ते कंसवधमाचष्ट इति प्रतीयते। यदा त्विन्द्रः कंसं घातयतीति प्रयोगस्तदा 'कंसघ्नं तमुपेन्द्रम् इन्द्रः प्रयुङ्क्त' इति।

अन्ये तु कथकः कंसं घातयतीत्यत्रापि प्रयोजकं व्यापारं ब्रुवते। यतः—

शब्दोपहितरूपांस्तान् बुद्धेर्विषयतां गतान्।

प्रत्यक्षमिव कंसादीन् साधनत्वेन मन्यते॥ ९०॥

Showing 491 to 500 of 595 verses