(श्लोवा. प्रत्य. १४०, ४१इति)
स्वावच्छेदेन विशिष्टज्ञानजनकता विशेषणत्वम्। तत् त्रिधा भेदकमनु— रञ्जकमुपलक्षकं च। यथा विश्वजिता यजेत, श्वेतं छागमालभेत, लोहितोष्णीषा ऋत्विजः प्रचरन्तीति। न च गोत्वादयः कदाचिदपि शब्दानुवेधवन्ध्यबोधविषयतां प्रतिपद्यन्ते। तथा हि— 'आयं गौः पृश्निरक्रमीत्' (तै. सं. १.५.३.१) इत्यादौ यथा जातिगुणक्रियावच्छिन्नविषयावभासिनि सविकल्पके, तथा निर्विकल्पके विज्ञाने शब्दविशिष्ट एवार्थः परिस्फुरति। तदाह— (वाप. १.१२३)
न सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमादृते।
अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यते॥ ८६॥
न चैतद्वाच्यम्—(श्लोकवा. प्रत्य. ११२)
अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम्।
बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम्॥ ८७॥
यतो बालादयो जन्मान्तरानुभवोपजनितनानासंस्कारजातयो जात्याद्युल्लेखेनैव तं तमर्थं प्रतियन्ति। तथा हि— 'तदहर्जातस्यापि बालकस्य पुरतो विदग्धवनिताः प्रदीपं न प्रस्थापयन्ति कर्कटो X X X न्मा भविष्यतीति।
अथ तथात्वातथात्वयोः मध्यस्थता प्रतीतिहेतुत्वात् प्रत्यायकत्वं, कथं पुनरतथाभूतमर्थं शब्दस्तथा प्रत्यययति ?
शब्दशक्तिमाहात्म्यात्। शब्दशक्त्युपजनिता हि बुद्धयः स्वबीजपरिपाक— वशादाकारविशेषवत्य उपजायमानाः सत्यपि वस्तुनोऽभेदे भेदमुपदर्शयन्ति। तद्यथा राहोः शिरः, शिलापुत्रकस्य शरीरमिति। तदुक्तम्—