भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 501 to 510 of 756 verses
आस्थितं कर्म यत् तत्र द्वैरूप्यं भजते क्रिया॥ १००॥

(वाप. ३.७.१३५)

कर्तृकर्म यथा— लूयते केदारस्स्वयमेव, पच्यत ओदनस्स्वयमेव, भिद्यते कुसूलस्स्वयमेव, भज्यते काष्ठः स्वयमेवेति।

(प्राप्यम्—६)

प्राप्यमपि प्राप्यं, प्रयोज्यं, अपरिहार्यमभिहितमनभिहितमकथितं च। तत्र प्राप्यं यथा— आदित्यं पश्‍यति, हिमवन्तं श्रृणोति, वेदमधीते, चर्चाः पारयति।

प्रयोज्यं यथा— माणवकं गमयति, शिष्यं बोधयति, ब्राह्मणमासादयति, पतिं शाययति। ननु च विकार्यमेतत्; तन्न, प्रयोजकव्यापारमात्रस्य विवक्षितत्वात्। विकारश्‍चैषां स्वक्रियानिबन्धन इति।

अपरिहार्यं यथा— विभागं जनयन् संयोगमुच्छिनत्ति, कटं कुर्वन् काशानाहरति, ग्रामं गच्छन् वृक्षमूलान्युपसर्पति, आमिक्षां भावयन् वाजिनमाप्नोति।

अभिहितं यथा यथा— उष्ट्रासिकाः आस्यन्ते, हतशायिकाश्शय्यन्ते, रैपोषं पुष्यति, उदपेषं पिनष्टि।

अनभिहितं यथा— 'पश्‍य मृगो' धावति, स्मरसि देवदत्त काश्‍मीरेषु वत्स्यामः, न मर्षयामि यत् तत्र भवान् वृषलं याजयेत्।

भावरूपं तु यत् कर्म तदिहाभिहितं विदुः। क्रियारूपं तु मन्यन्ते कर्माऽनभिहितं बुधाः॥ १०१॥

Showing 501 to 510 of 756 verses