शय्यन्ते हतशायिकाः पथि तरुच्छायानिषण्णाध्वगैः श्रीकण्ठायतनेषु धार्मिकजनैरास्यन्त उष्ट्रासिकाः।
शून्ये तत्र निकुञ्जशाखिनि सखि! ग्रीष्मस्य मध्यन्दिने सज्जानां दयिताभिसारणविधौ रम्यः क्षणो वर्तते॥ ५२॥
शतं वारानुक्तः प्रियसखि! वचोभिस्सुपरुषै— स्सहस्रं निर्धूतः पदनिपतितः पार्ष्णिहतिभिः।
कियत्कृत्वो बद्धाः पुनरपि न वेद्मि भ्रुकुटय— स्तथापि क्लिश्नन्मां क्षणमपि न धृष्टो विरमति॥ ५३॥
समासरूपं यथा—(कुसं. ५.५१)
इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम्।
अथो वयस्यां परिपार्श्ववर्तिनीं विवर्तितानञ्जननेत्रमैक्षत॥ ५४॥
उपसर्गादिरूपं यथा—(कुसं. ३.९)
प्रसीद विश्राम्यतु वीर! वज्रं शरैर्मदीयैः कतमस्तवारिः।