भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 441 to 450 of 841 verses
शय्यन्ते हतशायिकाः पथि तरुच्छायानिषण्णाध्वगैः श्रीकण्ठायतनेषु धार्मिकजनैरास्यन्त उष्ट्रासिकाः।

शून्ये तत्र निकुञ्जशाखिनि सखि! ग्रीष्मस्य मध्यन्दिने सज्जानां दयिताभिसारणविधौ रम्यः क्षणो वर्तते॥ ५२॥

तद्धितरूपं यथा—

शतं वारानुक्तः प्रियसखि! वचोभिस्सुपरुषै— स्सहस्रं निर्धूतः पदनिपतितः पार्ष्णिहतिभिः।

कियत्कृत्वो बद्धाः पुनरपि न वेद्मि भ्रुकुटय— स्तथापि क्लिश्‍नन्मां क्षणमपि न धृष्टो विरमति॥ ५३॥

समासरूपं यथा—(कुसं. ५.५१)

इति प्रविश्‍याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम्।

अथो वयस्यां परिपार्श्ववर्तिनीं विवर्तितानञ्जननेत्रमैक्षत॥ ५४॥

उपसर्गादिरूपं यथा—(कुसं. ३.९)

प्रसीद विश्राम्यतु वीर! वज्रं शरैर्मदीयैः कतमस्तवारिः।

Showing 441 to 450 of 841 verses