भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 441 to 450 of 756 verses
विकर्मकर्ता यथा— अवकिरते हस्ती, ग्रथते माला, प्रस्नुते गौः, चिकीर्षते कटः।

प्रयोज्यकर्ता यथा— पाचयति देवदत्तेन, पाठयति विष्णुमित्रेण, भारयति भारं वाहकेन, कारयति कटं वरुटेन।

कर्मप्रयोज्यकर्ता यथा— आरोहयते निषादिनं करेणुः, लावयते पामरं केदारः, दर्शयते राजा भृत्यैः, अभिवादयते गुरुर्देवदत्तेन।

प्रकृतिकर्ता यथा—काष्ठानि भस्म भवन्ति, महद्भूतश्‍चन्द्रमाः, त्वद् भवन्ति ज्ञातयः, मद् भवन्ति दायादाः।

विकारकर्ता यथा—मूत्राय संपद्यते यवागूः, अभ्यूषाय कल्पते यवानी, घटाय कपालौ भवतः; सुवर्णपिण्डं कुण्डले भवतः।

प्रकृतिविकारकर्ता यथा—सङ्घीभवन्ति ब्राह्मणाः, वर्गीभवन्ति गावः वत्सो वृषस्संपद्यते, बाला प्रगल्भा भवति।

स एषोऽष्टादशप्रकारोऽपि अभिहितानभिहितप्रयुज्यमानाऽप्रयुज्यमानप्रसिद्धप्रकृता— पेक्षितौपचारिकप्रकल्पितविकल्पितानुस्यूतसामान्यादिभेदादनेकधा कर्तृभेदस्संभवति। तत्र—

अभिहितो यथा— स आस्ते, भवान् करोति।

अनभिहितो यथा— भवता कृतं, तेन सुप्यते।

प्रयुज्यमानो यथा— त्वं पचसि, अहं पचामि।

Showing 441 to 450 of 756 verses