क्रियाप्यं कर्म; यदाह 'कर्तुरीप्सिततमं कर्म' (१.४.४९) इति।
तत्तु त्रिविधं. निर्वर्त्यं, विकार्यं प्राप्यमिति।
तत्र यदविद्यमानमुत्पाद्यते विद्यमानं वा जन्मादिना प्रकाश्यते तन्निर्वर्त्यं, यदभिनिर्वृत्तमेव प्रकृत्युच्छेदेन गुणान्तराधानेन वा विकारमापद्यते तद् विकार्यं, यस्य क्रियाकृतानां विशेषाणां सर्वथानुपलब्धिस्तत् प्राप्यम्। तदुक्तम्—
यदसज्जायते सद्वा जन्मना यत् प्रकाशते।
तन्निर्वर्त्य विकार्यं तु कर्म द्वेधा व्यवस्थितम्॥ ९२॥
प्रकृत्युच्छेदसंभूतं किञ्चित्काष्ठादिभस्मवत्।
किञ्चिद् गुणान्तरापत्त्या सुवर्णादिविकारवत्॥ ९३॥
क्रियागत/कृतविशेषाणां सिद्धिर्यत्र न गम्यते।