अप्रयुज्यमानो यथा— पचसि, पचामि।
प्रसिद्धो यथा— वर्षति, हेषते।
प्रकृतो यथा— भ्रेमुः, ववल्गुः।
अपेक्षितो यथा— इत्याचक्षते, यमयुङ्क्त।
उपचरितो यथा— धुनर्विध्यति, मञ्चाः क्रोशन्ति।
प्रकल्पितो यथा— आत्मनोऽपि नात्मानो जायन्ते, आत्मैवात्मानं जानाति।
विकल्पितो यथा— अहमन्यो वा गच्छतु, अन्योऽहं वा गच्छामि।
अनुस्यूतो यथा— स च त्वं च पचथः, त्वं चाहं च पचावः।
सामान्यो यथा— पचति पठति चेति। एते च भेदाः कर्मादिष्वपि यथासंभवमूहनीया इति विभक्तः कर्ता॥