यदेवं हि क्रियायास्साध्यमानत्वमनिदन्तानिर्देश्यं परिनिष्ठितं रूपं तेनैव साधनभावं प्रतिपद्यते, न रूपान्तरेण; तस्याभावाल्लकारोऽपि चैतां साध्यतया भवन्तीं कर्तृभावेनाभिधत्ते पचति भवतीति।
ननु किमन्यद्भवनं पचतिक्रियायास्साध्यताव्यतिरेकि, किं वा तदतिरिक्तं कर्तृत्वं, येन साध्यसाधनभावोऽवकल्पेत ?
उच्यते— योऽयमस्याः कारकसंबन्धः, कारकव्यापारविषयता न कारकाणि शशविषाणवत् पराकरोति, शक्यते संपादयितुं तेभ्यस्संपत्तिमनुभवति। तदस्याः कारकसंबन्धलक्षणं साध्यमानत्वमेव रूपं भवनमभिधीयते। पचतिक्रिया भवनं निर्वर्तयन्ती कारकेभ्यो निर्वृत्तिं प्रतिपद्यते, कारकाणि व्यापारवन्ति करोतीत्यर्थः। यत्पुनरस्या विशेषरूपं यागादिधर्मकं पक्तिरूपं पचत्येकशब्दवाच्यमनन्यसाधारणं, तेनैषा कर्त्री संपद्यते, तदेवमनन्यसाधारणेन स्वभावेन कर्त्री संपद्य साध्यात्मना भवतिक्रियारूपत्वेन भवतिः पचति, भवतिसाध्यत्वं लभत इत्यर्थः। अथवा प्रयोगात्मको योऽधिश्रयणादिव्यापारस्तैरेषा भवनक्रियारूपतामुपयाति। फलभूतेन विक्लित्त्यात्मना भवितृरूपं कर्तृत्वं, तेन भवति पचति इत्ययमर्थः पक्तिरधिश्रयणाद्यात्मना भवति, अधिश्रयणादयोऽस्याः प्रवृत्ता इति यावत्। अधिश्रयणादिरूपेण वा भवितृत्वं पक्तिरूपेण भवनक्रियात्वं, तेनायमर्थः अधिश्रयणादयः पक्तिरूपतया भवन्ति; विक्लित्तिस्सञ्जातेति यावत्। अथवा शब्दवाच्यं बुद्धिपरिगतं यद्रूपं तेन कर्तृत्वमस्यां, बाह्यसंपक्तिरूपत्वेन भवनरूपत्वं, बाह्यरूपेण भवितृत्वं, बुद्ध्यात्मना भवनरूपत्वमिति। यदि वा सामान्यात्मना कर्तृत्वं विशेषात्मना भवनरूपतेत्युपपद्यते क्रियायां कारकत्वम्।
ननु चोक्तं न लकारः सिद्धवदभिधानेन विना कर्तृभावेनेमां प्रतिपादयितुमुत्सहते, ततश्च सिद्धत्वेनाभिधाने पुनरपि विरोधः। नैवम्, यदेव पचतिक्रियायास्स्वभावभूतमात्मीयरूपं साध्यतालक्षणं तेनैव रूपेण सा कर्तृत्वमुपगता लकारेणोच्यते। सिद्धत्वावभासः कुत इति चेत्, लकारस्तां कर्तृभावेन प्रतिपादयितुं प्रवृत्तस्सिद्धत्वेनावगमयति, न तु साध्यायाः क्रियायाः सिद्धत्वापत्तिः। अतो रूपान्तरापत्तेः नास्ति विरोधः। यथा चोरस्य रुजतीति धात्वर्थ एव रोगलक्षणः कर्त्रन्तराश्रयणात् कर्तृभावमुपयाति; साध्या/?/त्मन एव चास्य कर्तृत्वम्। न च सिद्धताप्राप्तिः कर्तृत्वेन प्रतीयमाना सिद्धतयाऽवभासते; तथा क्रियापि न सिद्धतया लकारेणाभिधीयते। अपि तु साध्यायामेव तस्यां तदधिकरणात् कर्तृशब्दै— रभिधीयते इति। अथवा एकस्यैव वस्तुनो नानारूपाश्शक्तयो विरुद्धाविरुद्धस्वभावा लोकयात्रां कल्पयन्ति। ततोऽस्य सर्वशक्तेर्भावस्य वाचकशब्दः कश्चित् सिद्धात्मिकां शक्तिवृत्तिमवलम्बते, कश्चित् साध्यरूपाम्। तदेवं सिद्धसाध्यताशक्तियुक्तं वस्तु शब्दाभ्यामभिधीयमानं न विरुध्यते, अनेकशक्तियुक्तत्वात्। पचतीत्यनेन तदेव साध्यत्वेनावगतं भवतीति लकारस्साध्यत्वेनाभिधत्ते। सर्वशक्तिविरहितं वा वस्तु, सकलविकल्पोल्लेखरहितत्वात्। तस्य तु शब्दा एव स्वमहिम्ना नानाविधबुद्ध्युप— जननहेतवश्शक्तिं संनिवेशयन्ति; शक्त्याविष्टमिव व्यवहारगोचरतां नयन्ति। तेन शब्दाभ्यामेव सिद्धसाध्यताशक्त्याधानादखिलविकल्पीकृतात्मकमपि तद्वस्तु सिद्धसाध्यभावेनोपदिश्यते। भवति पचतीत्येकेन शब्देन सन्निवेशितसाध्यताशक्तियुक्तमभिहितम्, इतरेण तु तदेव शक्त्यन्तरारोपेण प्रकाश्यत इति नास्ति विरोधः।
यदि वा न पदस्य पदरूपादेवाधिकार्थता; किं तर्हि ? वाक्यरूपात्। तद्यथा पुरुष इति पदकाले पुरुषो व्यतिरिक्त उच्यते। यदा तु राज्ञः पुरुष इति विशेषसन्निधौ प्रयुज्यते तदा विशिष्टस्य पुरुषार्थस्य गतिः, न पुरुषस्येति वाक्यकालेऽधिकस्य धर्मस्य प्रादुर्भावः, तथा पचतीति नैकस्मादेव पदरूपात् कर्तृत्वम्; यदा भवतीति पदान्तरसन्निधिस्तदा परत्वे साधनमदृष्टदवाक्यकाले पुरुषस्यैव व्यतिरेक उपजायत इति। यथापि व्यपदेशिवद्भावेना— भिन्नस्यापि धातोरवयवप्रथमैकाज्व्यपदेश इयायेत्यादौ प्रवर्तते तथा बुद्धिभेदकल्पनया आख्यातवाच्यस्यार्थस्य भेदेऽपि क्रियाकारकादिव्यपदेशाः प्रवर्तन्ते। ततश्च पचतीत्यत्रापि न काचिद् अपरा तदतिरेकिणी भवनक्रिया, कश्चिदपरो वा कर्ता विरोधहेतुरस्ति; अपि तु सैव व्यपदेशिवद्भावेन भवनक्रियारूपतां पक्तृत्वं च दर्शयन्ती चकास्ति। एतेन पश्य मृगो धावतीत्यादावपि सिद्धसाध्यत्वयोरविरोधः।
अपि चैकस्याप्यर्थस्य विषयभेदेन द्विधर्मत्वं न विरुध्यते। यथा राज्ञः पुरुषस्य पुरुष इति पुरुषश्शेषी भवति शेषश्च इति, राजानं प्रति शेषोऽविचलितस्वार्थश्शेषितामापद्यते, एवं च धावतीति मृगे कर्तरि साध्यभावं प्राधान्येनाजहत् सरणं दृशावङ्गत्वं साधनत्वं चोपैतीति न कश्चिद् विरोधः। अथवायमर्थः — साधनमिदमयं साध्य इति रूपं सिद्धमात्रमेतत्, यथा पदे अयं प्रकृत्यर्थोऽयं प्रत्ययार्थ इत्येक एवासावर्थः अविशिष्टो विशिष्टो वा वाक्यविशेषयोर्ग्रहीतव्यः, यथा मुण्डयति, कूटयति, मूत्रयति, चर्चयतीति। तत्र मुण्डयति माणवकम्; मुण्डिः केशच्छेदनवचनः; तस्य तु व्युत्पत्तिः मुण्डं करोतीति सामान्यप्रवृत्तिविशेषं मुण्डशब्दोऽवस्थापयति; करोतिविशेषो यस्मिन् णिजुत्पद्यते, न करोतिमात्रम्। अन्ये पुनः केशच्छेदनादिवचनान्मुण्डादीनध्यवस्यन्ति; यथोक्तम् अथवा मुण्डादयो धातवः। मुण्डयतीति चैतस्मिन्नर्थे कूटयतीति च प्रयुञ्जते, कूटयति माणवकमिति। यथा च मुण्डं करोतीति प्रयुञ्जते, नैवं कूटं करोतीति; कूटशब्देन हि करोतिविशेषो न लक्ष्यते; किंतु छिदादिविशेषमवलक्ष्यमाणोद्देशविभागं कूटिरेवोपादत्ते। एवं मूत्रं करोतीति मूत्रयति, चर्चां करोतीति चर्चयति। मूत्रेण चर्चया वा करोतौ विशेष्यमाणे क्षरणं परिभाषणं वा विशेषेणोपादीयते। स एव च कदाचित् क्षरणविशेषः परिभाषणविशेषो वा नष्टोद्देशविभाग उपादीयते, यथा 'मूत्र प्रसवणे' मूत्रयति, 'चर्च परिभाषणे' चर्चयतीति।
एवं पश्य मृगो धावतीति इदमत्र साधनपदमिदमत्र साध्यपदमिति उत्प्रेक्षैषा। इदं त्वर्थ—सतत्त्वं 'नात्र सरणं, न दर्शनं न मृगः। किं तर्हि ? मृगकर्तृको दृशिकर्मसरणविशेषोऽयं तत्रैकार्थत्वादेकमेवेदं वाक्यमित्यस्ति द्वयोस्तिङन्तयोरेकस्मिन् वाक्ये सम्भवः। ततश्च पचति करोतीत्यादावपि पाकं करोतीतिवत् साध्यसाधनभावेन संबन्धोऽस्त्येवेति न कश्चिद् विरोधः।
अन्ये पुनर्मन्यन्ते, कस्यचिदपि बाह्यस्य वस्त्वात्मनोऽसंभवाद् भावभूतवस्तुशून्यमेवेदं जगत्, ततो बुद्धीनामेव तथाभूतव्यवहारोपजनननिबन्धनत्वम्। बुद्धय एव हि सिद्धसाध्यतारूपमुपदर्शयन्त्यः शब्दात् प्रवर्तयन्ति। ततश्च स्वमहिमोल्ला— सितनानाविधबुद्धिसमुपनीतभेदनकाल्पनिकाकारपरिगतोऽयं मायेन्द्रजालसदृशो व्यवहारः प्रवर्तत इति न कश्चिदपरं वस्तु यस्य सिद्धस्य साध्यलक्षणविरोधापत्तिः। तथा हि— बुद्धिमाकारभेदवतीमेके क्रियां मन्यन्ते। सा हि स्वमात्राभिरपर्यवसितविषयनिर्भासाभिः अन्तस्तत्त्वादिभिरिव बहिरर्थनिबन्धनामर्थक्रियां साधयति। न तदर्थं दर्शनाभि— निवेशोऽस्माकम् आराद्दवीयस्समुत्सारयन्ति प्रत्ययव्यक्तयो हि पराकृतवाक्यार्थसंस्पर्शा बाह्यार्थवत् तासु तास्वर्थक्रियासु यथासामर्थ्यमुपजायमानाः प्रतीताशङ्काविषय— परिगमनाद्यवस्थासु तदा सामर्थ्यं क्रियासामर्थ्ये किमर्थमन्यपदार्थरूपमभ्युपेयत इति। अत्र चूर्णी विरोधं दर्शयति; इदं किलोक्तं भाष्ये— कृदभिहितो भावः क्रियया समवायं गच्छति, पाको वर्तत इति; तिङभिहितस्तु न गच्छति (म.भा. ३.१.१७)।
न हि भवति पचति पठतीति। अत्राऽयं समाधिः—यथाभूता क्रियोपन्यस्ता तथाभूता समवायं न गच्छति, विशेषयोस्समवायो, नास्ति, सामान्ययोरस्त्येव। अस्ति स मे रोचते, असि त्वमीशिषे, नास्मि रमे, भवति, पचति करोतीति। तत्रैतच्छक्यते वक्तुं यत्रान्या च क्रिया भवति; यत्र तु खलु सैव सा क्रिया तत्र कथम् ? यथा भवेदपि भवेत्, स्यादपि स्यादिति। अस्ति च लोके एवंभूतः प्रयोगः। अपि भवेदेतद्देवदत्तस्यापि, स दिवसः स्याद्यत्रेदं भवेदिति। देवदत्तस्य च वर्तमानकालां सत्तामविनाशं प्रार्थयमान एतत्प्रयुङक्ते; अपि भवेदेतत्, भवेद्देवदत्त इति। अत्राप्यन्यत्वमस्ति; कुतः, साधनभेदात्कालभेदाच्च। एकस्यात्र भवतेर्भवति साधनं सर्वकालश्च प्रत्ययः। अपि भवेदित्यत्र यो भवति तत्र देवदत्तसत्ता न प्रकृत्यर्थः; किं तर्हि ? प्रत्ययार्थः; प्रार्थनेव लिङिति सर्वकालत्वं कालविशेषस्यानाश्रितत्वात्। 'अपरस्य बाह्यं साधनं वर्तमानकालश्च प्रत्ययो भवति। तस्य बाह्यं साधनं द्रव्यं देवदत्त इत्यर्थः, देवदत्तसत्ता तु प्रकृत्यर्थः, वर्तमानसत्ता तु देवदत्तस्. प्रार्थ्यत इत्यनुपात्तकालविशेषः। शास्त्रे लिङ् स्वरूपादेव वर्तमानकालेऽवतिष्ठते, यथा तव्यादयो भविष्यति, कर्त्तव्यः कट इति। स्वभावाच्चार्थानां व्यवस्थेपि भाष्ये कालाधिकारः प्रत्याख्यातः। एवं स्यादपि स्यादित्यत्रापि स्वाभाविकं नानात्वं साधनकालभेदेन प्रतिपाद्यत इति।
नन्वस्त्यादयोऽपि निपाताः, ते चाख्यातस्वरूपत्वात् कारकाणि विशिंषन्तः कालं पुरुषं संख्यां न व्यभिचरिष्यन्ति; यत्र व्यभिचारस्तत्र कथम् ? तथा हि— भवति पक्ष्यति भवत्यपाक्षीदयूयुजस्त्वमसीति कालव्यभिचारः; भवतु गच्छाम्यहमिति पुरुषव्यभिचारः; भवतु तयैव मण्डूकाः पच्यन्तामिति संख्याव्यभिचारः; भवतु नाम द्रक्ष्यसीति कालपुरुषव्यभिचारः; भवतु तयैव मण्डूकाः पच्यन्तामिति संख्याव्यभिचारः; भवतु नाम द्रक्ष्यसीति कालपुरुषव्यभिचारः; भवतु भविष्यन्ति जीवतो धनानीति कालसंख्याव्यभिचारः; अस्त्यगमाम घोषादिति कालपुरुषसंख्याव्यभिचारः। लोके चैवंभूता वाचोयुक्तिरस्ति, प्रयुङ्क्ते हि लोकः, अस्ति गच्छामो वयमित्येवमादिः, तत्रास्तीत्येकवचनमुपलभ्यते। तेन मन्यामहे गमेरेवैकत्वाश्रयस्य कर्तृत्वं, न वयमिति बहुत्वाश्रयस्य। तदेवं सामान्यक्रियया विशेषक्रियाणां कर्तृत्वेनाभिसंबन्धात् अस्त्यनयोस्साध्यसाधनभावः। विशेषक्रियायामपि क्वचित्कत्वेन संबन्धो दृश्यते— पश्य धावति, पश्याम उदाह्रियन्ते, मन्ये यास्यसि, स्मरसि वत्स्यामः, न मर्षयामि याजयिष्यति, आशंसे युक्तोऽधीयेति। करणादिभावश्च तिङन्तानां च विद्यते, पचति पठतीति। अत्र तु विद्यत एव संबन्धः, सर्वनाम्ना परामर्शात्। न चेह वाक्यभेदः, सर्वथैव तदनुपलब्धेः। तत्र हि खलु वाक्यभेद उपेयते। त त्रासौ परामृश्यमानोऽन्यां बुद्धिल्लिखति। न चेहोल्लेखवान् वाक्यभेदो बुद्धावुपलभ्यते; तस्मादेकवाक्यत्वमेव। अत एवाभिजानासि देवदत्त यत् कश्मीरेषु वत्स्यामः, तत्रौदनं भोक्ष्यामहे इति 'विभाषा साकाङ्क्षे' (३.२.११४) इति सर्वनाम्ना परामर्शात्साकाङ्क्षत्वोपपत्तेः। तत्रेत्यनेनासंधीयमानत्वाल्लटो लङश्च विकल्पः प्रवर्तते। स स्वपित्येष बुध्यते, सोऽस्तमयतेऽयमुदेतीत्यत्र तु परस्परं वा आख्यातयोर्लक्ष्यलक्षणभावः, सह वा सर्वैरेव कालविशेषादिकं लक्ष्यत इत्येकपरत्वादेकवाक्यतैव। यथा—