ननु चोक्तम् पश्चादुपसर्गयोगो न घटते इति। निपाता अन्वादयो भविष्यन्ति—अनुरूपः कमिता अनुकः, अभिरूपः अभिकः, अभीको वेति। तथापि
अनुकोऽनुकमिता, अभिकोऽभिकमिता इति वक्तव्यं स्यात् यथा 'उत्क उन्मना' इति।
नैवम्, सामान्येनापि विशेषाभिधानं दृश्यते; तद्यथा— 'गम्लृ सृप्लृ गतौ' इत्यत्र हि गच्छतीति गौः, सर्पतीति सर्प इति गमनसर्पणयोर्यद्यपि महान् विशेषः, तथापि गतावित्यविशेषेण निर्दिश्यते। एतेन 'नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटच' (५.२.३१) इत्याद्यपि व्याख्यातम्; अत्र हि नासिकाया अवटीटनम्, अवनमनम्, अवभ्रंश इति नतिविशेंषा नते इत्यनेन सामान्यशब्देनैवाभिधीयन्ते इति।
उपसर्गतो वा न दोषः। अनुरूपं कामयते, अभिरूपं कामयते इति क्रियाभागमात्रेणैव सम्बन्धादन्वादयः प्रत्ययार्थं विशिंषन्तः प्रकृतिभावं लप्स्यन्ते; यथा सुमनायते, विपुच्छयते इति। विषम उपन्यासः। तत्र हि मनःपुच्छादिकायाः प्रकृतेः श्रवणं विद्यते; इह तु तद्गन्धोऽपि नास्ति, यतः परः प्रत्यय उत्पद्यते।
नैवम्, इयान्, इयत्, अधुना, इत्यादावपि प्रकृतेरश्रवणात् तत्र प्रत्ययनिमित्ता प्रकृतेर्निर्वृत्तिः इति चेत्, इहापि निपातननिमित्ता भविष्यति।
कश्चैवमाह प्रकृतेः पर एव प्रत्ययो भवतीति ? अव्ययसर्वनामामकच् प्राक्टेः' (५.३.७१) 'विभाषा सुपो बहुच् पुरस्तात् तु' (५.३.६८) पूर्वस्य समासान्ताश्च सर्वे टजादयो भवन्ति। अति च, प्रकृतिः प्रत्यय इति रूपसिद्धिमात्रमेतत्। इदं त्वर्थवत्त्वम् अयं शब्दोऽस्मिन्नर्थे साधुर्भवतीति। स च
क्वचिदेवमुच्यते 'अनुकाभिकाभीककमिता' इति;
क्वचिद् वा 'नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटच्' (५.२.३१) इति;
क्वचिदुत्कर्षः अनुपद्यन्वेष्टा (५.२.९०) इति;
क्वचित् 'श्रोत्रियंश्छन्दोऽधीते' (५.२.८४) 'क्षेत्रियच् परक्षेत्रे चिकित्स्य (५.२.९) इति;