भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 441 to 450 of 1013 verses
ननु चोक्तम् पश्‍चादुपसर्गयोगो न घटते इति। निपाता अन्वादयो भविष्यन्ति—अनुरूपः कमिता अनुकः, अभिरूपः अभिकः, अभीको वेति। तथापि

अनुकोऽनुकमिता, अभिकोऽभिकमिता इति वक्‍तव्यं स्यात् यथा 'उत्क उन्मना' इति।

नैवम्, सामान्येनापि विशेषाभिधानं दृश्यते; तद्‌यथा— 'गम्लृ सृप्लृ गतौ' इत्यत्र हि गच्छतीति गौः, सर्पतीति सर्प इति गमनसर्पणयोर्यद्यपि महान् विशेषः, तथापि गतावित्यविशेषेण निर्दिश्यते। एतेन 'नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटच' (५.२.३१) इत्याद्यपि व्याख्यातम्; अत्र हि नासिकाया अवटीटनम्, अवनमनम्, अवभ्रंश इति नतिविशेंषा नते इत्यनेन सामान्यशब्देनैवाभिधीयन्ते इति।

उपसर्गतो वा न दोषः। अनुरूपं कामयते, अभिरूपं कामयते इति क्रियाभागमात्रेणैव सम्बन्धादन्वादयः प्रत्ययार्थं विशिंषन्तः प्रकृतिभावं लप्स्यन्ते; यथा सुमनायते, विपुच्छयते इति। विषम उपन्यासः। तत्र हि मनःपुच्छादिकायाः प्रकृतेः श्रवणं विद्यते; इह तु तद्‍गन्धोऽपि नास्ति, यतः परः प्रत्यय उत्पद्यते।

नैवम्, इयान्, इयत्, अधुना, इत्यादावपि प्रकृतेरश्रवणात् तत्र प्रत्ययनिमित्ता प्रकृतेर्निर्वृत्तिः इति चेत्, इहापि निपातननिमित्ता भविष्यति।

कश्‍चैवमाह प्रकृतेः पर एव प्रत्ययो भवतीति ? अव्ययसर्वनामामकच् प्राक्टेः' (५.३.७१) 'विभाषा सुपो बहुच् पुरस्तात् तु' (५.३.६८) पूर्वस्य समासान्ताश्‍च सर्वे टजादयो भवन्ति। अति च, प्रकृतिः प्रत्यय इति रूपसिद्धिमात्रमेतत्। इदं त्वर्थवत्त्वम् अयं शब्दोऽस्मिन्नर्थे साधुर्भवतीति। स च

क्‍वचिदेवमुच्यते 'अनुकाभिकाभीककमिता' इति;

क्‍वचिद् वा 'नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटच्' (५.२.३१) इति;

क्‍वचिदुत्कर्षः अनुपद्यन्वेष्टा (५.२.९०) इति;

क्‍वचित् 'श्रोत्रियंश्छन्दोऽधीते' (५.२.८४) 'क्षेत्रियच् परक्षेत्रे चिकित्स्य (५.२.९) इति;

Showing 441 to 450 of 1013 verses