भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 461 to 470 of 1013 verses
प्राक् तु साधनसम्बन्धात् क्रिया नैवोपजायते ॥ ३६ ॥

(वाप. २.१८३) इति।

तन्न, भाविसम्बन्धतोग्यता समाश्रयणात्। इदंचावश्यमुपगन्तव्यम्, अन्यथा हि क्रियावचनो धातुररित्यपि न स्यात्। न च 'धातोः कर्मणः समानकर्तृकादिच्छायां वा' (३.१.७) इति सन उत्पत्तिः। तदाह—

धातोः साधनयोगस्य भाविनः प्रक्रमाद् यथा।

धातुत्वं कर्मभावश्‍च तथान्यदपि दृश्यताम् ॥ ३७ ॥

(वाप. २.१८४)

यदि च धातोः पूर्वमुपसर्गेण सम्बन्धो न स्यात् कथामुच्यते 'विपराभ्यां जेः' (१.३.१९), अधिशीङ्स्थासां कर्म (१.४.४६) इति ?

ननु पूर्वमुपसर्गसंबन्धः क्‍वोपयुज्यते ? साधनमन्तरेण तद्विशेषानभिव्यक्तेः। नैवम्। फलकाले बीजसंस्कारस्येव तस्योपयोगात्। तदुक्तम्

बीजकालेषु संबद्धा यथा लाक्षारसादयः।

वर्णादिपरिणामेन फलानामुपकुर्वते ॥ ३८ ॥

Showing 461 to 470 of 1013 verses