प्राक् तु साधनसम्बन्धात् क्रिया नैवोपजायते ॥ ३६ ॥
तन्न, भाविसम्बन्धतोग्यता समाश्रयणात्। इदंचावश्यमुपगन्तव्यम्, अन्यथा हि क्रियावचनो धातुररित्यपि न स्यात्। न च 'धातोः कर्मणः समानकर्तृकादिच्छायां वा' (३.१.७) इति सन उत्पत्तिः। तदाह—
धातोः साधनयोगस्य भाविनः प्रक्रमाद् यथा।
धातुत्वं कर्मभावश्च तथान्यदपि दृश्यताम् ॥ ३७ ॥
यदि च धातोः पूर्वमुपसर्गेण सम्बन्धो न स्यात् कथामुच्यते 'विपराभ्यां जेः' (१.३.१९), अधिशीङ्स्थासां कर्म (१.४.४६) इति ?
ननु पूर्वमुपसर्गसंबन्धः क्वोपयुज्यते ? साधनमन्तरेण तद्विशेषानभिव्यक्तेः। नैवम्। फलकाले बीजसंस्कारस्येव तस्योपयोगात्। तदुक्तम्
बीजकालेषु संबद्धा यथा लाक्षारसादयः।
वर्णादिपरिणामेन फलानामुपकुर्वते ॥ ३८ ॥