किम्, नु, नूनम्, आहो, उत, स्वित्, वा, इव इति वितर्कार्थाः।
यथा— किमयं स्थाणुः किं पुरुषः,
अहिर्नु रज्जुर्नु, (काशिका ८.२.९८)
न नूनमस्ति नो श्वः, (ऋवे. १.१७०.१, निरुक्तम् १.६.२)
पद्ममेतन्मुखं स्विद् भाति,
हन्ताहं पृथिवीमिमां निदधानीह वेह वा, (ऋवे. १०.११९.९, निरुक्तम्. १.४.२३)
ताम्यतीव मे वत्सो मकरन्दः (मामा ३.१८) इति।