यद्युपसर्गेण, प्रकृत्यर्थो वक्तव्यः अनुकामयते, अभिकामयत इत्यर्थे प्रत्ययस्यैवोत्पादात्। अथ साधनेन, पश्चादुपसर्गयोगो न घटते। न ह्यसत्त्ववचना अन्वादयः (पम. ३.१.१२) सत्त्वभूतार्थवचनैः सम्बन्धमुत्सहन्ते।
अस्तु तावत् कमेः प्रथममुपसर्गेणैव सम्बृन्धः।
ननु चोक्त्तं प्रकृत्यर्थो वक्तव्य इति।
स नास्ति पृथक्, प्रत्ययार्थविशेषणभूतस्यैवान्वादेः प्रकृतिभावात्। यथा 'भृशादिभ्यो भुव्यच्वेः' (३.१.१२) इत्यत्र मनस्वी सुष्ठु भवति सुमनायते, दुर्मनायते, अभिमनायते इति सुदुरभीनां प्रत्ययार्थस्य भवने विशेषणत्वेऽपि प्रकृतिभावः।
ननु असुमनाः सुमना भवतीति प्रकृत्यर्थविशेषणत्वमपि सुदुरभीनां कस्मान्न भवति?
तथा सति स्वमनायत, दुरमनायत इत्यडागमः स्वादीनां पूर्वतः प्राप्नोति; यथा असङ्ग्रामयतेति। तत्र सङ्ग्रामयतेः सोपसर्गस्यैव चुरादिषु पाठ इति चेत्, इहापि च तत् समानम्; भृशादिषु हि सुमनस्, दुर्मनस्, अभिमनस् इति प्रकृतयः पठ्यन्ते।
यद्येवम् अन्वरुध्यतेतिवत् स भविष्यति। नैवम्—
नैवम्, यद्यपि 'अनो रुध कामे' इति दिवादिषु पठ्यते, तथापि यथा अरुध्यतेति दृश्यते। नैवम् अमनायतेति। तर्हिप्रत्ययार्थ विशेषणपक्षे, यथा श्येन इवाचरति श्येनायते इत्यत्र आङः प्रयोग उक्तार्थत्वान्न भवति, एवं सुमनायत इत्यादौ स्वादीनामपि न भवेत्। नैवम् तत्र हि आङर्थ एव प्रत्ययार्थविशेषणम्, इह तु तत्र स्वादीनामर्थाः। ततश्च मनायत इत्युक्ते न ज्ञायते सुष्ठु, दुष्ठु अभि वा मनस्वी भवतीति स्वादयः प्रयुज्यन्ते; यथा— 'पुच्छभाण्डचीवराण्णिङ्' (३.१.२०) इत्यत्र 'पुच्छादुदसने व्यसने पर्यसने च' इति पुच्छमुदस्यत्युत्पुच्छयते पर्यस्यति परिपुच्छयते इति, एवमनुकामयते अनुकः, अभिकामयतेऽभिकः, अभीको वेति।
अस्तु वा कमेः पूर्वं साधनेन संबन्धः।