एक इह जीवलोके जीवतिरूपं नृरूपपशुरूपः।
यः प्रेमपाशपाशे मृग इव न मृगीदृशां पतति ॥ ३३ ॥
स्वार्थादिसाकल्यनिबन्धनाः कुत्सानुकम्पातिशयप्रशंसादयो यथा— कुत्सिकुत्सितकः, अनुकम्पितकः, प्रकृष्टतरः, प्रशस्यरूप इति। अत्र हि— (वाप. ३.१४.२—३)
देवदत्तादिकुत्सायां वर्त्तते कुत्सितश्रुतिः।
कुत्सितस्था तु या कुत्सा तदर्थे 'को' विधीयते ॥ ३४ ॥
प्रकृष्ट इति शुक्लादिप्रकर्षस्याभिधायकः।
प्रकृष्टस्य प्रकर्षे तु तरबादिर्विधीयते ॥ ३५ ॥
एवमनुकम्पाप्रशंसयोरपि वाच्यमिति।
'अनुक—अभिक—अभीकः कमिता' (५.२.७४) इत्यत्राऽनुकामयतेऽसावित्यनुकः, अभिकामयतेऽसावित्यभिकः, अभीको वेति वृत्तिसमानार्थवाक्यकल्पनायां धातोः पूर्वमुपसर्गेण सम्बन्धः, साधनेन वा?