भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 401 to 410 of 1013 verses
४. प्रकृतिविशेषेभ्यो नित्यमुपजायमानाः सहाभिधायिकाः। यथा— करीषगन्धेरपत्यं कारीषगन्ध्या (४.१.७४), अभिजितोऽपत्यमाभिजित्यः (५.३.११८), कुञ्जस्याऽपत्यं कौञ्जायन्यः (५.३.११३), परस्परं विविध आक्रोशो व्यावक्रोशी (व्याक्रोशी), समन्ताद् रावः सांराविणम्, राज्ञामायत्तं राजाधीनम् (५.४.७) इति।

५. 'लुपि युक्तवद् व्यक्तिवचने' (१.२.५१), इति कार्यार्थाः सार्थकाः। यथा— चञ्चा रमणी इयम्, वर्धिका दर्शनीयः, वासुदेवः प्रतिमा, बलदेवश्‍चित्रम्, देवपथ आकाशरेखा, हंसपथः क्रौञ्चम् (१.२.५२), वर्धिका दर्शनीयः (५.३.९८), वासुदेवः प्रतिमा (५.३.९९), बलदेवश्‍चित्रम् (५.३.१००), हंसपथः कौञ्चम् (५.३.१००) इति।

६. शब्दोपचयादिहेतवो निरर्थकाः। यथा—प्रज्ञ एव प्राज्ञः (५.४.३८), विनय एव वैनयिकः (५.४.३४), मृदेव मृत्तिका (५.४.३९) सूर एव सूर्यः (५.४.२५), नामैव नामधेयम् (५.४.५४/५५), देवानां राजैव देवराजः (५.४.३८) इति। एवं कतरः (५.३.९२), कतमः (५.३.९३), पटुतरः पटुतमः (५.३.५८), पटिष्ठः (५.३.५५), पटीयान् (५.३.५७) इत्यादयोऽपि सत्त्वभूताः स्वार्थाः स्वार्थिकेषु यथायोगमवगन्तव्याः।

किं पुनरमी पदप्रकृतयः प्रातिपदिकप्रकृतयो वा?

कुतस्ते संशयः?

उभयथोपलम्भात्। तथा ह्येषां 'युष्मकाभिः, कदा, तर्हीत्यादौ प्रातिपदिकप्रकृतित्वम्; भिन्धकि, त्वयकि, मयकीत्यादौ पदप्रकृतित्वमुपलभ्यते। ततश्‍च यावकः अश्‍वकः, उच्चकैरित्यादौ संदेहः।

न सन्देहः, स्वार्थद्रव्यलिङ्गसंख्याशक्तिमात्राभिधानेन प्रातिपदिकात् स्वार्थादि— निमित्तकुत्साप्रशंसाऽनुकम्पातिशयापरिसमाप्तियाद्यधिकार्थद्योतनेन पदादेव स्वार्थिको— त्पत्तिर्भवतीति। स्वार्थाद्यभिधानेन हि परिसमाप्तार्थं पदं स्वार्थांदिनिमित्तकैः कुत्सादिभिः सम्बन्धमुत्सहते। तदाह— (वाप. ३. १४. १)

कुत्साप्रशंसातिशयैः समाप्तार्थं तु युज्यते।

पदं स्वार्थादयः सर्वे यस्मात् कुत्सादिहेतवः ॥ २८ ॥

यद्यपि स्वार्थाद्यन्यतमनिबन्धनाः क्वचित् कुत्सादयो भवेयुः, तथापि तत्साकल्यार्थं पदादेव कादय उत्पाद्याः तत्र—

Showing 401 to 410 of 1013 verses