भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 391 to 400 of 1013 verses
अत्रापि क्रियाग्रहणाद् भविष्यति।

कथं पुनः क्रियाशब्देन गुण उच्यते?

क्रियापूर्वकत्वात्। स्थूलगुणयोगाद्धि स्थूलो भवति, गोसंबन्धाच्च गोमानिति।

नन्वेवं सति क्रियाग्रहणमपि न कर्त्तव्यम्। प्रवर्त्ततामविशेषेणैव तेन इत्येतस्मिन्नर्थे वतिः 'तत्र तस्येव' इत्यनेन च नार्थः सूत्राऽऽरम्भेण। तदर्हमित्येतदपि उपमानान्न व्यतिरिच्यते, यद्धि राजानमर्हति तद् राजसदृशमेव भवति। एवं च 'तेन तुल्यमि'त्येवावतिष्ठते। तथा चाह चन्द्रगोमी (चान्द्रव्या. ४.१.१३५)— 'इवे वतिः' इति। नन्वेवं सति गौरिव गवय इत्यत्रापि वतिः प्राप्नोति।

नैवम्, उपमायां वतिः, नोपमाने।

यद्यपि वतिशब्देनोभयमपि द्योत्यते तथाप्यदन्यदेवौपम्यम्, अन्येदवोपमानम्। भूयोऽवयवसादृश्यस्य योगो ह्युपमा; यथा चन्द्र इव मुखम्। सदृशात् सदृशप्रतिपत्तिरुपमानम्, यथा गौरिव गवय इति ॥

(२. सत्त्वभूतार्थाः स्वार्थिकाः)

१. सत्त्वभूतार्थभेदेषु लिङ्गविशेषाद्यभिधायिनो वाचकाः। यथा— देव एव देवता (५.४.२७), देवतैव दैवतम् (५.४.३८), उपाधिरेव औपधेयम् (५.१.१३), भाग एव भागधेयम् (५.४.२५ वा), 'उपाय एवौपयिकम्' (५.४.३४ वा), चत्वार एव वर्णाश्‍चातुर्वर्ण्यम् (७.३.३१)।

२. कुत्साप्रशंसाद्यभिव्यञ्जका द्योतकाः। यथा— कुत्सितो वैयाकरणो वैयाकरणपाशः (५.३.४७), प्रशस्ता मृत् मृत्स्ना (५.४.४०), तनुः उक्षा उक्षतरः (५.३.९१), लघुः कुटी कुटीरः (५.३.८८), ईषदसमाप्त आढ्‍य आढ्‍यकल्पः (५.३.६७), भूतपूर्वो राजा राजचरः (५.३.५३) इति।

३. वाचकत्वे द्योतकत्वे वा व्याहृतत्वाद्यर्थविशेषव्यक्तिहेतवो विशेषकाः। यथा— व्याहृतार्था वागेव वाचिकम्' (५.४.३५), उपदेशरूपं कर्मैव कार्मणम् (५.४.३६), असहाय एक एवैकाकी (५.३.५२), अश्‍व इवायमश्‍वकः (५.३.९६), कुशाग्रमिव कुशाग्रीया बुद्धिः (५.३.१०५), शिलेव शैलेयं दधि (५.३.१०२) इति।

Showing 391 to 400 of 1013 verses