(९) अनपेक्षिताख्यातं यथा—
कियन्मात्रं जलं विप्र!जानुदघ्नं जनाधिप !।
तथापीयमवस्था ते न हि सर्वे भवादृशाः ॥ ७७ ॥
(१०) एकान्तराख्यातं यथा— (भट्टि. १३. २७)
तेनेऽद्रिबन्धो ववृधे पयोधिस्तुतोष रामो मुमुदे कपीन्द्रः।
तत्रास शत्रुर्ददृशे सुवेलः प्रापे जलान्तो जहृषुः प्लवङ्गाः ॥ ७८ ॥
(११) निरन्तराख्यातं यथा— (भट्टि. १३. २८)
भ्रेमुर्ववल्गुः ननृतुर्जहर्षुर्जगुस्समुत्पुप्लुविरे निषेदुः।
आस्फोटयांचक्रुरभिप्रणेदू रेजुर्ननन्दुविययुस्ममीयुः ॥ ७९ ॥
ननु च निरन्तराख्यातं समुच्चिताख्यातमेकार्थाख्यातमावृत्ताख्यातमित्यादयो वाक्यविकल्पा नोपपद्यन्ते; वाक्यकारो हि मन्यते नास्त्येव तिङन्तयोस्संबन्धः; तथा च 'तिङ्ङतिडः' (८.१.२८) इत्यत्र 'अतिङ्वचनमनर्थक समानवाक्याधिकाराद्' {८.१. २८(१)} इत्यतिङ्वचनं प्रत्याचष्टे। न ह्येकत्र वाक्ये द्वे तिङन्ते स्त इति। एवं वाक्यलक्षणं करोति— आख्यातं साव्ययकारकविशेषणं वाक्यम्। तत्राख्यातग्रहणं न कर्तव्यम्; न ह्यव्ययकारकविशेषणपदानि निबन्धनमन्तरेणावतिष्ठन्ते। आख्यातमेवैषां निबन्धनमिति लब्धे, व्याख्याने पुनराख्यातग्रहणं आश्रितसङ्ख्याख्यातपदपरिग्रहर्थम्, यत्रैकमाख्यातपदमव्ययकारकविशेषणपदानि सन्निपन्ति, तद्वाक्यं यथा स्यात्। अनेकाख्यातपदप्रयोगे तु वाक्यसंज्ञा मा भूदित्यनाश्रितसङ्ख्यातपदाशङ्कानिरासार्थम् 'एकतिङ् वाक्यम्' इति वचनान्तरमारभते।