यदेव रोचते मह्यं तदेव कुरुते प्रिया।
इति वेत्ति न जानाति तत् प्रियं यत् करोति सा ॥ ७० ॥
जयत्यमलकौस्तुभस्तबकितांसपीठो हरि— र्जयन्ति मृगलोचनाश्चलदपाङ्गदृष्टिक्रमाः।
ततो जयति मल्लिका तदनु सर्वसंवेदना— विनाशकरणक्षमो जयति पञ्चमस्य ध्वनिः ॥
चरन्ति चतुरम्भोधिवेलोद्यानेषु दन्तिनः।
चक्रवालाद्रिकुञ्जेषु कुन्दभासो गुणाश्च ते ॥ ७२ ॥