भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 381 to 390 of 689 verses
सोऽस्मिञ्जयति जीवातुः पञ्चेषोः पञ्चमध्वनिः।

ते च चैत्रे विकीर्णैलातक्‍कोलीकेलयोऽनिलाः ॥ ७३ ॥

(६) एकार्थाख्यातं यथा—(रघु. १. ५४)

तामवातारयत् पत्‍नीं रथादवततार च ॥ ७४ ॥

(७) कृदभिहिताख्यातं यथा— (महा. द्रोण. १८४. ८६)

ततः कुमुदनाथेन कामिनीगण्डपाण्डुना।

नेत्रानन्देन चन्द्रेण माहेन्दी दिगलङ्कृता ॥ ७५ ॥

(८) अध्याहृताख्यातं यथा—

यश्‍च निम्बं परशुना यश्‍चैनं मधुसर्पिषा।

यश्‍चैनं गन्धमाल्याभ्यां सर्वत्र कटुरेव सः ॥ ७६ ॥

Showing 381 to 390 of 689 verses