साधनैकार्थभावित्वे प्रवृत्तिमनपायिनीम् ॥ २४ ॥
सामान्यभूता सा पूर्वं धात्वर्थैः प्रविभज्यते।
ततो व्यापाररूपेण साध्ये च व्यवतिष्ठते ॥ २५ ॥
प्रकृतिः साधनानां सा प्रथमं तच्च कारकम्।
शक्तिरेकाधिकरणे स्रोतोवदुपकर्षति ॥ २६ ॥
अपूर्वं, कालशक्तिं वा, क्रियां वा, कालमेव वा।
तमेवंलक्षणं भावं केचिदाहुः कथंचन ॥ २७ ॥
'तत्र तस्येवे'—त्यस्य च प्रयोजनमुपन्यस्तं पुरस्ताद् द्रव्यगुणयोस्तुल्ययोः प्रत्ययो न लभ्यते इति।
नन्वेवं सति 'देवदत्त इव स्थूलः, यज्ञदत्त इव गोमान्' इत्यत्र प्रत्ययो न प्राप्नोति सप्तमीषष्ठ्यन्तत्वयोरभावात्।