तत्रेदं विचार्यते— किमेकास्मिन् वाक्ये द्वयोस्तिङन्तयोस्संबन्ध एव नास्ति, उत सत्यपि संबन्धे द्वितीयं न प्रयुज्यते एकतिङ् वाक्यमिति पूर्वाचार्यसमयादनु किञ्चिदाह — सत्यपि तिङन्तयोस्संबन्धे तिङन्तामन्त्रितनिघातयुष्मदस्मदादेशप्लुतादिकार्यव्यवस्थार्थ— मेकतिङ्वाक्यमिति पारिभाषिकमेव वाक्यलक्षणं क्रियते।
समानवाक्यार्थात् पदादुत्तरयोस्तिङामन्त्रितयोर्निघातस्स्मर्यते। युष्मदस्मदोः वांनावादय (८.१. २०) आदेशा विधीयन्ते। 'वाक्यस्य टेः प्लुत उदात्तः' (८.२.८२) इति वाक्याचामन्त्यस्य प्लुतश्शिष्यते इति। तच्च तदोपपद्यते यदैकतिङ्वाक्यमिति पारिभाषिकं वाक्यलक्षणं क्रियते। अन्यथा 'समर्थः पदविधिः' (२.१.१) इति पदानां परस्परासामर्थ्ये वाक्यस्य चापरिसमाप्तौ सर्वथा न प्राप्नोति। तथा हि 'नद्यास्तिष्ठन्ति कूले, वृक्षस्य लम्बते शाखायां, कः प्रिये मयि कोपः ? का सुभग प्रिया ते ?शालीनां ते ओदनं दास्यामीति मे माता ब्रवीति, आगच्छ भो देवदत्त कुग्रामं गच्छावः, ग्रामं यदि यासि रे मामपि प्रतीक्षस्व।' अत्र तिष्ठतिना कूलमभिसंबन्धात्, नदीः लम्बनेन शाखा, न वृक्षः; क इत्यनेन कोपो, न प्रिया; केत्यनेन तु प्रिया, न सुभगः; ते इति युष्मदर्थेन ओदनं, न शालयः; मे इत्यस्मदर्थेन माता, न वचनम्; आगच्छ देवदत्त, ग्रामं यदि यासि रे, इत्येतावति वाक्ययोरपरिसमाप्तिः, किं तर्हि ? गच्छावो, मामपि प्रतीक्षस्वेति। ततश्च निघातादिकार्याणामप्राप्तिः। एकतिङ्परस्य तु पदसमुदायस्य वाक्यत्वे परम्परया यथाकथञ्चिदभिसंबन्धे निघातयुष्मदस्मदादेशा युज्यन्ते। 'युक्तयुक्ते चोपसङ्ख्यानम्' इति युक्तेन वक्तव्यं भवति। एवं साकाङ्क्षस्यापि पदकदम्बकस्य एकतिङवच्छेदेन वाक्यत्वप्रतीतौ 'वाक्यस्य टेः प्लुत' इति वाक्याचामन्त्यस्योदात्तः प्लुत इति सिद्धो भवति।
कश्चित्तु ब्रूते—नास्त्येव तिङन्तयोस्संबन्धः। स हि तिङन्तेषूपकल्प्यमानः षोढैवावकल्पते—विशेषणविशेष्यसम्बन्धः, साध्यसाधनसम्बन्धः, लक्ष्यलक्षणसम्बन्धः, हेतुहेतुमत्ससम्बन्धः, अवध्यवधिमत्सम्बन्धः, समुच्चयादिसम्बन्धश्चेति। तत्र विशेषण— विशेष्यसंबन्धस्सामानाधिकरण्येन वा स्यात् वैयधिकरण्येन वा। न तावत् सामानधि— करण्येन, पचति पठतीत्येतयोरत्यन्तमर्थभेदात; न हि पदार्थयोरन्त्यन्तभेदेऽभेदे वा विशेषणविशेष्यभाव उपपद्यते। न हि भवति आम्रश्चूतोऽश्वत्थ इति, यत्र तु नात्यन्तभेदो अभेदो वा तत्रोपपद्यते, यथा नीलमुत्पलमिति।
ननु यथा प्रपचति स्तोकं पचति इत्यादावुपसर्गेण स्तोकादिना वाऽऽख्यातां विशेष्यते, तथाऽऽख्यातान्तरेणापि कस्मान्न विशेष्यते ? नैवम्; अत्र यथा नीलवीरशब्दौ नीलत्ववीरत्वे विशेषणरूपेणाभिदधतौ उत्पलं पुरुषं च सामान्येनोपगृह्णीतः। न तूत्पलपुरुषसामान्ययोर्वा नियतौ भवतः, उत्पलपुरुषशब्दावप्युत्पलपुरुषौ विशेष्यरूपेणा— भिदधतौ नीलत्वं वीरत्वं च सामान्येनोपगृह्णीतः; न तु तत्सामान्ययोस्तद्विशेषणयोर्वात्मानं नियमयतः। परस्परोपश्लेषकृतयोर्विशेषणविशेष्यभावो भवति। न वैतत् पचति पठतीत्येतयोरुपपद्यते; न हि नीलोत्पलादिवत् पचति; पठतिं, पचतिं वा पठतिरुपग्रहीतुं शक्नोति।
ननु चात्यन्तमभिन्नार्थभिन्नार्थयोश्च दृश्यते विशेषणविशेष्यभावः। अभिन्नार्थयोर्यथा अधीते, अध्येति। भिन्नार्थयोर्यथा प्रतिष्ठते, प्रस्मरति। नैवम्, अधीते, अध्येतीत्येतयोर्यद्यपि धातुरुपसर्गं न व्यभिचरति, व्यभिचरत्येवोपसर्गो धातुम्, अतश्शक्यतेऽन्वयव्यतिरेका— भ्यामर्थभेदः कल्पयितुं, यदर्थोऽयमधिरन्यत्र दृष्टस्तदर्थ इहापि भवितुमर्हति। अयं चाधिरन्यत्रोपरिभावार्थो दृष्टः, यथा अध्यास्ते, अधिरोहतीति; ते मन्यामहे अस्य स एवार्थ इति। तस्मादधीडेव शब्दक्रियो ज्ञानक्रियश्चेति, अधिशब्दस्त्वेतमेवार्थमुपरिभावेन विशिनष्टि। विशिष्टार्थवतां शब्दानां विधिपूर्वं वा शब्दानां तथाधीतार्थविषयमेतद्विज्ञानमिति एतावानेवार्थोऽधिना विभज्यते। इह तर्हि कथं प्रतिष्ठते, प्रस्मरति इति। न ह्यत्र सत्यपि केवलप्रयोगे तिष्ठतेः स्मरतेर्वा पचतिवत्सामान्याभिधायित्वम्। किं तर्हि ? विरोधिन्येव क्रिया गम्यते व्रजिक्रिया स्मरणनिवृत्तिश्च। व्यक्तं च प्रतिष्ठत इत्यनेन स्थानप्रारम्भो नोच्यते; किं तर्हि ?गमनमेव; प्रस्मरतीत्यनेनापि स्मरणारम्भो नोच्यते, अपि तु स्मरणांनारम्भ एवेति।
नैष दोषः। प्रशब्दोऽयं प्रपचतीत्यादिषु आदिकर्मवचनत्वेन निर्ज्ञातः; अस्य विशेषतोदृष्टादनुमानादिकर्मवचनत्वमनुमीयते। तिष्ठतिश्च देवदत्तस्तिष्ठतीत्यादौ क्रियावचनाद्धातुत्वेन निर्ज्ञातः; अतोऽस्य सामान्यतोदृष्टादनुमानाद्गमनार्थत्वमपि विज्ञायते। बह्वर्था अपि धातवो भवन्ति, वपिः प्रकिरणे दृष्टश्छेदनेऽपि प्रवर्तते केशान्वपतीति। ईडतिश्च। ईडतिश्च स्तुतौ दृष्टः प्रेरणेऽपि प्रवर्तते, अग्विर्वा इतो वर्षमीट्टे; करोतिरपूर्वप्रादुर्भावे दृष्टो निर्मलकरणेऽपि वर्तते; पादौ कुरु, षष्ठं पृष्ठं कुरु, उन्मृदानेति गम्यते। तथा कटे कुरु, अश्मानमितः कुरु, निक्षिपावाक्षिपेति गम्यते। अयमपि च धातुत्वादनेकार्थो भवितुमर्हति। एतेन स्मरतिरपि व्याख्यातः। न चैतन्न दृष्टं विरुद्धार्थावर्थौ तुल्यरूपेण शब्देनाभिधीयेते। तद्यथा— सन्निकर्षविप्रकर्षयोर्दृष्टमाराच्छब्देनाभिधानम्— 'आराच्छत्रुमपबाधस्व दूरम्' (ऋवे. १०. ४२. ७)'दूराद्दवीयो अपसेध शत्रून्' (ऋवे. ६. ४७. २९)। अतस्तिष्ठतिरेव गमनार्थः, स्मरतिरेव स्मरणानिवृत्तिक्रियः; तद्विशेषश्चोपसर्ग इति युक्तमुक्तं वस्तुनोरत्यन्तभेदेऽभेदे वा विशेषणाविशेष्यभाव इति। यदाह—"सम्भवे व्यभिचारे च विशेषणमर्थवद्भवति" इति।
नापि वैयधिकरण्येनाख्यातमाख्यातस्य विशेषणं भवति, प्राधान्येऽसति असत्त्वभूतार्थत्वात्। इह राज्ञः पुरुष इति भरणादिक्रियानिमित्तो व्यतिरेको विशेष— सम्बन्धनम्। न च प्राधान्यस्यैव राजार्थस्योपजायते; न च तथाख्यातार्थस्य प्राधान्यं सत्त्वाभावे वा सम्भवति। यत्रापि च क्रियापदं श्रूयते मातुः स्मरति सर्पिषो जानीते इति तत्रापि सा क्रिया साध्यास्येत्यनेन रूपेणाश्रीयमाणसत्त्वभूतस्याप्रधानस्य मात्रादेरर्थस्य व्यतिरेक उपजायते; श्रूयमाणक्रियाविशेषसम्बन्धनिमित्तं भवति। न चैतदाख्यातस्योपपद्यते, सत्त्वभूतत्वादेव निमित्तानिर्देश्यतयास्येति व्यपदेशाभावात्। यत्खलु परिनिष्ठितस्वभावमस्य तस्येति सर्वनामप्रत्यवमर्शयोग्यं तद्विशेषणतया क्वचिदुपयुज्यते वा न वा ? यत्पुनरात्मनैवाऽपरिसमाप्तरूपे तद्विपरीतं, तत्कथमिवान्यस्य विशेषणत्वं यायात् ?
नन्विदानीमेव प्रपचति, स्तोकं पचतीत्यसत्त्वभूतयोः प्रशब्दस्तोकशब्दयो— र्विशेषणत्वमुक्तम्। नैवम्; अन्यथा तदुपपत्तेः, उपसर्गाणां क्रियाविशेषणानां वा सत्त्वभूतानामप्यनन्यविषयत्वेनैव क्रियां प्रति गुणभावो भवति। तथा हि—योऽसौ क्रियाभूतो धर्मः प्रारम्भादिः; तं क्रियार्थमिव क्रियानुप्रविष्टमसत्वभऊतमभिदधत् प्रशब्दोऽभिव्यञ्जयति। यदि वा यथाक्षिनिकोचादयोऽभिदधत एवार्थान् प्रदर्शयन्ति, एवं क्रियास्थान्, प्रारम्भादीनन— भिदधत एव प्रादयोऽवद्योतयन्ति। दृश्यते अनधीयमानस्याप्यर्थस्यात्मस्थस्यावद्योतनं, यथा दाण्डा क्रीडेति; 'तदस्यां प्रहरणमिति क्रीडायां णो' (४.२. ५७) विहितः क्रीडामब्रुवन् प्रहरणत्वं दण्डत्वमवद्योतयति। तस्मात् प्रपचतीत्यत्र पचिमेव संदिग्धं विशेष एव स्थापयन्नसत्त्वार्थोऽपि प्रशब्दो विशेषणत्वं लभते। एवं स्तोकशब्दोऽपि क्रियाभूतं धर्मपकर्षादिकं क्रियार्थमिव असत्त्वभूतं क्रियानुप्रविष्टमभिदधानः क्रियानुरोधादेवा— सत्त्वभावमापन्नः क्रियाविशेषणत्वं भजते।
न चैवमाख्यातान्तरस्थं विशेषणमाख्यातमभिव्यञ्जयितुमभिधातुं वा शक्नोति, द्वयोरपि प्राधान्येन परस्परानपेक्षत्वात्। भवतु चोपसर्गादेरसत्त्वार्थस्यापि नीलोत्पलादिवदेव सामानाधिकरण्येन विशेषणविशेष्यभावः; वैयधिकरण्ये तु व्यतिरेकापेक्षायां कथमिवैतद्भवति ? न हि अपरिनिप्पन्नत्वेनात्मलाभ एव क्षीणस्यापरोपकारिणः करणादयो व्यतिरेका युज्यन्ते। अतो वैयधिकरण्येनापि न तिङन्तयोर्विशेषणविशेष्यभावस्सम्बन्धो भवति। साध्यसाधनभावोऽपि नोपपद्यते, स हि क्रिययोः कर्तृत्वे कर्मत्वे वा स्यात्; साध्यं हि वस्तूत्पद्यमानत्वेन कर्ता कर्म चेति। न चैतदुभयमपि क्रियायाः क्रियान्तरं प्रति युज्यते। तिङन्तेन हि क्रियात्मोत्पत्तिं प्रति प्रयतमानकारकाकाङ्क्षापि प्रकृत्या प्रयोगेषु विनिवेशितस्वरूपाऽभिधीयते। अतोऽप्रतिब्धात्मरूपत्वेन क्रियायास्साधनपरवशत्वेन तदवरुद्धत्वादितरेण क्रियात्मना सम्बन्धसत्त्वेनास्याः कर्तृरूपता कर्मरूपता वा सम्भवति, यतः परिनिष्पन्नरूपस्यात्मलाभनिरपेक्षस्य सिद्धात्मनस्साधनाभावो घटते, न तूक्तविपरीतात्मन इति। क्रियायाश्चायमेव स्वभावः, यदुत साधनाधीनत्वेन साध्यस्वभावायाः प्रतीतिः। या च साध्यस्वभावा सा कथमिवान्यस्मिन् साध्ये साधनभावं गच्छेत्, येन कर्त्रीत्युच्यते ? या च साधनाधीनत्वेन साध्यस्वभावा सा कथमिव क्रिया साध्येत, येन कर्मेत्युच्यते ? यदि च स्यात् परिनिष्पन्नरूपद्रव्यवदेवेदंतया निर्दिश्येत। न च निर्दिश्यते, अतोऽनिदन्तया निर्देशादपि न साधनम्। अवस्थारूपश्च साधनधर्मो व्यापारशब्दवाच्यः क्रिया। सा कथमिवात्मसिद्धये तथाबिवधमेव धर्मान्तरमपेक्षेत ? अनपेक्षितयोश्च कथमिव मिथस्सम्बन्धोपपत्तिः ?