भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 411 to 420 of 689 verses
न च क्रियायाः किमपि तदवशिष्यते यत्साधनैरसाधितं क्रियान्तरस्य साध्यं भविष्यति। तदेवमितरेतरानायत्तरूपयोरसम्बन्ध एव क्रिययोः। न च निर्वर्तमानलब्धात्मकं वस्तु निर्वर्तकादृते परेण सह सम्बन्धमर्हेत्। उपकार्योपकारकनिबन्धनस्वभावानामितरेतरेण संबन्धलब्धात्मकस्य चोपकारकत्वम्। क्रिया च तथारूपत्वविरहात् साधनेभ्यस्स्वोत्पत्ति— मवेक्षमाणा कथमिवातथाभूतक्रियान्तरेण संबन्धमियात् ? तस्मात् स्वसाधनावरुद्धत्वात् साध्यमानैकस्वभावायाः क्रियायाः कर्तृत्वे कर्मत्वे वा न क्रियान्तरेण सह संबन्धः।

ननु च यथा पाकं करोति, पाको वर्तते इति तिङ्कृदभिहितयोः क्रिययोस्साध्य— साधनभावो दृश्यते, तथा च पठति पचतीत्येतयोरपि कस्मान्न भवति ? नैवम्; उक्तमिदं भाष्ये, 'अस्ति खलु तिङभिहितस्य कृदभिहितस्य भावस्य विशेषः, कृदभिहितो हि भावो द्रव्यवत् प्रकाशमानः क्रियया समवायं गच्छति' इति। न हि भवति पचति पठति इति लक्ष्यलक्षणभावोऽप्याख्याताभिहितयोः क्रिययोरभिन्न— साधनयोर्वा संभवति। द्विधापि चानुपपत्तिः; साध्यमानत्वेन प्रवर्तमानस्य साधनपरतन्त्रस्य चात्मनोऽनिदन्तानिर्देशस्य साधनवल्लक्षणत्वायोगात्। ननु च मा भूत् क्रियायास्साधनम्; लक्षणं तूभयथापि दृश्यते, पाचकः पठति, रुदतः प्राव्राजीदिति। ततो यः पचति स पठति, स रोदिति, अयं प्रव्रजतीत्याख्यातयोर्लक्ष्यलक्षणभावो भविष्यति। चिरं जीव, त्वयैव स्मारितोऽस्मि। आख्यातयोर्लक्ष्यलक्षणत्वेना— सम्बन्धकारणस्य यदत्र 'लक्षणहेत्वोः क्रियायाः' (३.२.१२६) इति शतृशानचौ तिङपवादौ स्मर्येते। अतो लक्षणत्वे क्रियायाः क्रियान्तरं प्रति समाश्रीयमाणे पचन् पठति, रुदतः प्राव्राजीदित्येव भवितव्यम्।

ननु यः पचति स पठति, स रोदित्ययं प्रव्रजतीति तत्कथं सम्बन्धः? एतेन हेतुहेतुमद्भावः आख्यातयोः प्रत्युक्तो भवति, यतोऽसावपि द्विधा— हेतुर्वा हेतुमत्परत्वेन, हेतुमतो वा हेतुपरत्वेन। तत्र हेतोर्हेतुमत्परत्वे शतृशानज्भ्यां हेतुमतस्स्वहेतुपरत्वे तुमुनादिभिर्भाव्यम्। यथा पचन् भुङ्क्ते, अधीयमानो वसति, भोक्तुं पचति, भोजको व्रजतीति। ननु पचति, भुङ्क्ते, व्रजतीति तत् कस्य केन संबन्धः ? अवध्यवधिमद्भावोऽपि तिङ्न्तयोर्नास्त्येव। स हि देशतः कालतो वा स्यात्। न तावद्देशतः, तस्य मूर्तिमद्विषयत्वात्। कालतस्तु युज्यते, किंतु तत्र पूर्वकाले क्त्वाप्रत्ययविधानात् पक्त्वा भुङ्क्त इत्येव स्यात्, न तु पचति भुङ्क्त इति। समुच्चयेनापि क्रियायास्संबन्धः। सोऽपि हि द्विधैव; साधनानां वा क्रियायां यथा गौरश्वश्‍च गृह्यताम्; क्रियाणां वा साधने यथा असौ पचति पठति चेति; न तु क्रियाणां क्रियायामेव।

ननु चैकत्वात् क्रियाया यद्यपि साधनसमुच्चये क्रियाभिसंबन्धो नास्ति, तथाप्येकवस्तुविषयत्वेन क्रियासमुच्चयेऽसौ भविष्यति। तथा हि— य एव पचति स एव पठतीत्यैकाधिकरण्ये भवत्येव सम्बन्धोपपत्तिः। नैवं साध्ययोस्साधनायत्तयोरलब्धात्मनो— स्साधनोन्मुखत्वेन परिवर्तमानयोः, क्रियायाः परस्परानपेक्षत्वात्; न ह्यनन्वितात्मना— मधिकरणमपेक्षामुपजनयितुमलम्। अतस्सव्येतरगोविषाणवत् परस्परेणासमन्वितमेव क्रियाद्वयं साधने समुच्चीयतें न च समुच्चीयमाने वस्तुनी मिथस्संबध्येते, तथा सति समाहारेतरेतरयोरन्यतरापत्तौ समुच्चयस्यैवाभावात्। आदिग्रहणादन्वाचयेऽप्यनन्वय एव क्रिययोः। तस्मान्नास्त्येवाख्यातयोर्मिथस्संबन्ध इति।

ननु च अस्ति स मे रोचते, अस्ति त्वमीशिषे, नाहं रमेऽस्मि इति सामानाधिकरण्येन विशेषणविशेष्यभावः; भवति पचति, भवति पक्ष्यति, भवत्यपाक्षीत्, भवेदपि भवेत्, स्यादपि स्यादिति कर्तृत्वेन; पश्‍य मृगो धावति, इह पश्‍यामः कर्मणि द्विनचनबहुवचनान्युदाह्रियन्ते, एहि मन्ये रथेन यास्यसि, स्मरसि देवदत्त कश्‍मीरेषु वत्स्यामस्तत्रौदनं भोक्ष्यामहे, न मर्षयामि यत्तत्र भवान् वृषलं याजयेदिति कर्मत्वेन साध्यसाधनभावः; यो भुङ्क्ते स गृह्यताम्, योऽधीते स पचतीत्यभिन्नसाधनत्वेन; स स्वपिति एष बुध्यते, स उदेति अयमस्तमेतीति भिन्नसाधनत्वेन लक्ष्यलक्षणभावः; हन्तीति पलायते, वर्षतीति धावतीति हेतोर्हेतुमत्परत्वेन; वक्ष्यामीति व्रजति, भोक्ष्यते इत्यास्त इति हेतुहेतुमतोर्हेतुपरत्वेन हेतुहेतुमद्भावः; यावद्भुङ्क्ते ततो व्रजति, यदयं भुङ्क्ते ततः पठति, यदयं भुक्‍त्वा व्रजतीत्यधीत एव ततः परमिति अवध्यवधिमद्भावः; सक्‍तून् पिब, धानाः खाद, ओदनं भुङ्क्ष्वेत्येवायमभ्यवहरति, पचति चायं पठति चेति समुच्चयः; वटो!। भिक्षामट गां चानयेत्वन्वाचयोऽपि तिङन्तेषु दृश्‍यते। तत्कथमुच्यते नाख्यातयोस्संबन्धोऽस्तीति?

नैवम्; वाक्‍यभेदादिना तदुपपत्तेः। अस्ति स स मे रोचते, असि त्वं त्वमीशिषे, अस्म्यहमहं रमे, अस्त्येतद् गच्छामो वयं, भवत्वेवमेतत् पयसोधयामयत्वममिथ्येवासि (?), यन्मुरजितं त्वमपूपुज इत्युक्तेषु वाक्‍यभेदा उपपद्यन्ते। निपाता वा अस्त्यादयः आख्यातसरूपा निरर्थका अपि वाक्‍यपूरणाय कमीमिद्वादिवत्प्रयुज्यन्ते; न तु क्रियाभिर्विशेषणविशेष्यभावमनुभवन्ति। भवति पचतीत्यादिषु तु पचतीति पक्ष्यतीति अपक्षीदिति च योऽर्थो भवति असावस्तीत्यर्थः। ननु पचत्यादेर्भवतौ कर्तृत्वेन साध्यसाधनभावः; एवं भवेदपि भवेत्, स्यादपि स्यादिति।

ननु चावश्‍यमेव पचत्यादिक्रिया भवतिक्रियाकर्तृत्वेनाभ्युपेया। यदि ह्येषा न भवेत्तेन कर्त्री स्यात् सिद्धरूपतया, न लकारेणाभिधीयते। न च सा सती सिद्धभावमुपैति। न च लकारः सिद्धतदभिधानेन विना कर्तृभावेनेमां प्रतिपादयितुमुत्सहते। ततो येनात्मना कर्त्री न तेन क्रिया, येन च साध्यात्मना क्रिया न तेन कर्त्रीति वस्त्वन्तरमेव लकारेण कर्तृतया कथितमापद्येत। देवदत्तः पचतीति चानेन ज्ञातवत्प्रज्ञाप्यते विधेयता त्वस्तेर्भवतीत्यत्र तु अज्ञातरूपतयोपादीयते भवनक्रियानुभवितृत्वात्। न च युगपदेव ज्ञातवदज्ञातवच्च समाश्रयणं युक्तम्; अतो न क्रिया कर्तृत्वमुपयाति। पश्‍य मृगो धावतीत्यत्र तु पश्‍यशब्दो न तिङन्तः। किं तर्हि निपातोऽयमाश्‍चर्यमित्येस्मिन्नर्थे वर्तते; पश्‍य भुङ्क्ते, अहो आश्‍चर्यमद्भुतं भुङ्क्त इत्यर्थः।

केचिदाख्यातसरूपौ पश्‍यपश्‍यतशब्दौ दर्शनार्हेयं क्रियेत्यस्मिन्नर्थे मन्यन्ते।

अथवा पश्‍य मृगो धावतीत्यत्र नासावेवमाह—दृशं मृगसरणे नियुङ्क्ष्व; किं तर्हि ? चक्षुः प्रणिधत्स्व प्रमत्तो मा भूरिति; यतोऽप्रणिहितचक्षुस्सन् मृगसरणमन्यद्वा प्रतिपद्यते। यथा रूपमग्र्यं दृष्ट्वा एतदेवाह—आलोकय आलोकयेति, तस्मात्पश्‍येत्येतावति वाक्‍यस्य परिसमाप्तत्वान्नास्ति दृशस्सरणेन संबन्धः।

अथवा यो धावति मृगस्तं पश्र्येति सर्वनाम्ना यदा सोऽर्थः प्रत्यवमृष्टो भवति तदा क्रिया तस्योपलक्षणाय प्रवर्तते। यो धावति सर्तारं तं पश्र्यति; अयं चार्थः पश्र्य धावतीति पदयोरसंबन्धत्वेन श्रुतार्थापत्तिगम्यः न तु शब्दसन्निवेशी।

Showing 411 to 420 of 689 verses