कर्त्रादीनां च षण्णामपि प्रत्येकं त्रिप्रकारत्वादष्टादशप्रभेदा भवन्ति। तत्र —
कर्ता स्वतन्त्रः, हेतुः, कर्मकर्ता च।
कर्म निर्वर्त्यं, विकार्यं प्राप्यं च।
करणं बाह्यमाभ्यन्तरं बाह्याभ्यन्तरं च।
संप्रदानं ददातिकर्माप्यं, कर्ममात्राप्यं क्रियाप्यं च।
अपादानं निर्दिष्टविषयमनिर्दिष्टविषयमुपात्तविषयमपेक्षितक्रियं च।
अधिकरणं वैषयिकमौपश्लेषिकं नैमिक्तिकं चेति।
(स्वतन्त्रः —६) तच्च(त्र)कर्तृभेदेषु स्वतन्त्रः समर्थोऽसमर्थस्समर्थासमर्थः, संबन्धोऽसंबन्ध— स्संबन्धासंबन्धश्च। तेषु—