समर्थो यथा— व्रजति, पचति, अस्ति, श्वेतते।
असमर्थो यथा— जायते, विरमति, नश्यति, विकरोति।
समर्थासमर्थो यथा— चैत्रस्य रुजति, चैत्रस्यामयति, चोरं ज्वरयति, चोरं संतापयति।
संबन्धो यथा प्रियं दृष्ट्वा सुखं भवति, रिपुं दृष्ट्वा दुःखमुत्पद्यते, रम्यं श्रुत्वा दिदृक्षा जायते, रहः प्राप्य रतिर्निर्वर्तते।
असंबन्धो यथा— मेरौ दोग्धरि धरित्रीमद्रयो दुदुहुः, पञ्चभिर्हलैः क्षेत्रं ग्रामणीः कर्षति, शैलैर्वाल्मीकिरम्मोधिं बन्धयति, उज्जनिन्याः प्रस्थितो माहिष्मत्यां सूर्यमुद्गमयति।
संबन्धासंबन्धो यथा— भवति पचति, भवति पक्ष्यति, भवत्यपाक्षीत्, भवेदपि भवेत्, स्यादपि स्यात्।
१. वाक्यपदीय ३.७.२०—३.७.२१ इति कारिकयोः उत्तरार्द्धे।
(हेतुः —६) कर्मप्रयोजकः, कर्तृप्रयोजकः, कर्मकर्तृप्रयोजकः, हेतुप्रयोजकः, अहेतुप्रयोजकः हेत्वहेतुप्रयोजकश्च। तेषु—
कर्मप्रयोजको यथा— गां दोग्धि पयः, पौरवं गां याचते, गर्गाञ्छतं दण्डयति, काशान् कटं करोति।
कर्तृप्रयोजको यथा— यज्ञदत्तः पाचयति, माठरः पाठयति, भिक्षा वासयति, कारीषोऽग्निः अध्यापयति।