यदि वा श्रुतार्थापत्त्येव गम्यमानेतिशब्दोपसंहृतस्य मृगो धावतीति वाक्यार्थस्य दृशौ कर्मत्वमेव। पश्र्याम उदाह्रियन्त इति।
अथवा द्वे एते वाक्ये—एकमेतावति वाक्यम् 'इह पश्र्यामः' कर्मणि द्विवचनबहुवचनादीनि वचनान्येव दृशः कर्मत्वेनावतिष्ठन्ते, नोदाहृतिः। अतश्च पश्र्यामो यस्मादुदाह्रियन्ते प्रयुज्यन्त इति द्वितीयम्। एहि मन्ये रथेन यास्यसीत्यत्र 'प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च' (१.४.१०६) इति वचनाद् यदायमर्थः एहि मन्यसे रथेन यास्यामीति। यदा वा सूत्रप्रतिषेधपक्षे स्वविषय एव मध्यमोत्तमौ तदा सर्वथा गम्यमानेति— शब्दोपसंहृतस्य वाक्यार्थस्यैव कर्मत्वम्। एहीति च प्रहासविषयसंबोधनार्थ आख्यातस्वरूपो निपातः। आख्यांतस्वरूपाश्च पुरुषं संख्यां न व्यभिचरन्ति; न हि भवति त्वमस्ति वयमस्तीति। किञ्चास्तिरपि निपातः; सोऽयं यथा अस्तिक्षीरा गौः; तत्र ह्याख्यातमिति कृत्वोक्तः; सुबधिकारेऽस्तिक्षीरादिवचनमिति; न चाव्ययत्वात्; निपातोऽयमिति परिहारः।
ननु च सङ्ख्यामव्यभिचरन् कथमेकशब्दो बहूनां प्रहासे बहुत्वं ब्रूयात् ? नैवम्; बहुभिरेकः प्रहस्यते, नैकेन बहवः, न हि बहुष्वेकं प्रहसत्सु सूत्रप्रतिषेधपक्षे 'एहि मन्ये रथेन यास्यामि' (इति)। यदा वा सूत्रप्रतिषेधपक्षे अस्तीति कथं न सत्त्वभूतोऽर्थस्साध्य— साधनसंबन्धमनुभवति ? यो भुङ्क्ते स गृह्यतामित्यत्रापि वाक्यद्वितयमेव। न चात्र क्रिययोः लक्ष्यलक्षणभावः; क्रियायाः कारकोपलक्षणत्वात्। तथा हि यो भुङ्क्ते स देवदत्त इति देवदत्तसत्त्वोपलक्षणमेको वाक्यार्थः; स तथाभूतो गृह्यतामिति तस्य ग्रहणसंबन्धः।
दर्शनमपरम्— न च यथा सत्त्वं तद्रूपाभिधायित्वेन स्मरणात् कर्तृप्राधान्यमभिदधत् क्रियायाः क्रियान्तरं प्रति लक्षणत्वमभिधत्ते, तथा सर्वनामाभिधातुं शक्नोति। तेन हि सा क्रिया साध्यत्वात्प्रच्याव्य साधनोपसर्जनभावमुपनीता तत्परामृष्टं देवदत्तमुपलक्षयति; स तु तथाभूतः क्रियान्तरेण संबध्यत इति। न ह्येकस्याः प्रवृत्तेस्साधनोपलक्षणमपरक्रिया— संबन्धश्चोपपन्नो भवति।
नन्विदमेवास्याः क्रियान्तरेणान्वितत्वं यदन्यस्यास्साधनमुपलक्ष्यति। नैवम्, एषा स्वसाधनलक्षणत्वेन प्रवर्तमाना यदधीनोदया तदेवोपलक्षयेत्, नान्यद्, असंबन्धात्। ननु चास्या अपि देवदत्त एव साधनं, स चानयोपलक्षितः, तत्कथं भिन्नवाक्यता ? नैवम्; भवतु नाम देवदत्तोपलक्षणत्वमस्याः; किंतु न तं देवदत्ततयोपलक्षयति, अपि तु स्वसाधनत्वेन। ततस्स्वसाधन एव देवदत्ते प्रथमतोऽस्या विश्रान्तिः, देवदत्तस्य च तयैव तदाभिसंबन्धोऽभ्युपेयः। न हि यौगपद्येन लक्ष्यमाणत्वं प्रा़धान्यं च प्रतिपद्येत, क्रियान्तरे गुणभावं च, विरोधप्रसङ्गत्। न च भुजिक्रियावच्छिन्नस्येतरक्रियाभिसंबन्धोऽभिमतः, समुच्चीयमानक्रियाद्वयप्रसङ्गत्। यो भुङ्क्ते स गृह्यतामित्येकरसा प्रवृत्तिः, प्रत्यासत्तेः। तन्मात्रमिदं सूत्रं, तस्य तु पुनरित्थंभूत एवार्थ इति न तत्र वाक्यभेदः। एतेन योऽधीते स पचतीत्यपि प्रत्युक्तम्। स स्वपित्येष बुध्यते, स उदेत्ययमस्तमेतीत्यत्र तु साधनत्वान्नतरां लक्ष्यलक्षणभावः। हस्तीति पलायत इति— अत्र त्वितिशब्दो हेतुहेतुमद्भावं द्योतयन्नर्थस्य स्वातन्त्र्यं करोति। दृष्ट इतिशब्दोऽर्थस्य स्वातन्त्र्यमुपजनयन्, 'तस्मिन्निति निर्दिष्टे पूर्वस्य' (१.१.६६) इति। अत्र हि तस्मिन्नित्यधिकरणस्य कर्तृकर्मसमवायिन्यौ क्रिये प्रति उपाधित्वेन प्रवर्तमानस्याकाङ्क्षा; यत आधेयस्तत्र स्वे आत्मन्यवस्थानाभावादिति— शब्देनासत्यवच्छेदे कार्ययोगो न स्यात्। 'तस्मिन्निति निर्दिष्टे पूर्वस्य' इत्युक्ते तस्मिन् य आधेयो निर्दिष्ट इति संप्रत्ययः स्यात्; तस्मात् सप्तम्यर्थनिर्देशे पूर्वस्य कार्यस्य संप्रत्ययार्थमितिशब्द उपादीयते। एवमिहापि। इतिशब्दो वा न तस्य स्वातन्त्र्यमुपजनयति ! यस्मादयं (हस्ती) हन्ति तस्मादयं पलायत इति। एवं वर्षतीत्यादावपि योजनीयम्। अत्र च तिङन्तयोरितिशब्दसामर्थ्याद्धेतुहेतुमद्भावोऽनुमीयते, न पुनश्र्शब्दसन्निवेशीति। यावद्भुङ्क्ते ततो व्रजतीत्यादौ तु भिन्नवाक्यतायामपि यावत्ततः पूर्वमित्यादिनिपातसामर्थ्या— दवध्यवधिमद्भावो गम्यते; न पुनराख्यातशब्दसन्निवेशीति। सक्तून् पिबेत्यादावपि 'सक्तून् पिब', 'धानाः खाद', 'ओदनं भुङ्क्ष्व' इति विशेषणवाक्यार्था इतिशब्दोपसंहृता इतिशब्दसामर्थ्यादेव तत्सामान्याभिधायिना अयमभ्यवहरतीति वाक्यान्तरेणोच्यन्ते। पचति चायं पठति चेति वाक्यद्वयमेव; एवं वटो ! भिक्षामट, गां चानयेति।
तदेवं कात्यायनमते नास्त्येवाख्यातयोस्संबन्धः; सूत्रकारस्य तु मतेऽस्त्येवाख्यातयोः अनेकवाक्यत्वेनाभिसंबन्ध इति, यदयं समानवाक्याधिकारेऽतिङ्न्तादुत्तरस्य तिङो निघातं शास्ति। 'अभिज्ञावचने लृट्' (३.२.११२) इति स्मृत्युक्तावतीतकालेऽपि लृटं स्मरति; यदिति (३.२.११३) यत्प्रयोगे तन्निषेधति, 'विभाषा साकाङ्क्षे' (३.२.११४) इत्याकाङ्क्षायां विभाषयाभ्यनुजानाति, 'न यद्यनाकाङ्क्षे' (३.४.२३) इति निराकाङ्क्षवाक्ये क्त्वा—णमुलौ निषिध्य लडादीनेवानुमन्यते इति का पुनरत्रोपपत्तिः? उच्यते आख्यातपदतुल्यधर्मिणो हि क्त्वान्तस्यानेकस्यापि दृष्टस्तिङन्तेन सह संबन्धः। स्नात्वा पीत्वा भुक्त्वा व्रजतीति; तथा पूर्वं स्नाति भुङ्क्ते पिबति ततो व्रजति इति। तत्र यथैव क्त्वान्तस्य तिङन्तेनैकवाक्यत्वं तथा पूर्वकालक्रियाभिधायिनामाख्यातानां सर्वेषामपि क्रियाविशेषणकत्वाद्भवति। उक्तं च—
यथाऽनेकमपि क्त्वान्तं तिङन्तस्य विशेषकम्।
तथा तिङन्तं तत्राहुः तिङन्तस्य विशेषकम् ॥ ८० ॥
किंच यथाकथंचिदाश्रीयमाणोऽर्थस्सामानाधिकरण्येनावधिभावेन वा विशेषणत्वं न व्यतिक्रामति। तथा हि, व्रज देवदत्तेत्यामन्त्रितस्य विशेषणत्वेनैकवाक्यत्वाद् 'आमन्त्रितस्य च' (८.७.१९) इति निघातो दृश्यते; कर्तृत्वाद्भविष्यतीति चेद् व्रजानि देवदत्तेत्यत्र कथम्? न हि देवदत्तो व्रजिक्रियायाः कर्ता, न खल्वपि कारकस्य विशेषकम्, नापि सुष्ठु पचतीति पदान्तरत्वेन क्रियाविशेषणमुपपद्यते। किंतु क्रियां प्रति आभिमुख्येनावस्थाप्यमानः पञ्च वारान् पचतीतिवत् बाह्यविशेषणतां लभते। कः पुनर्बाह्यान्तरयोः क्रियाविशेषणयोविंशेषः ? अयमस्ति आन्तरं हि क्रियाविशेषणं कर्मत्वं नपुंसकत्वं च प्रतिलभते; बाह्यस्य तु स्वलिङ्गता न कर्मत्वनियमः। एवं च कृत्वोक्तम्—