अन्यतमनिबन्धनाः कुत्सादयो यथा—
किं द्वारि दैवहतिके ! सहकारकेण संवर्धितेन विषवृक्षक एष पापः।
यस्मिन् मनागपि विकासविकारभाजि भीमा भवन्ति मदनज्वरसन्निपाताः ॥ २९ ॥
अत्र हि दैवहतशब्देन लब्धायां नीत्युपाधौ (५.३.७७) सर्वथैवानुकम्प्यमानतायाम्, सहकारसंवर्धननिबन्धनत्वमेवास्याः कपा द्योत्यते— एवं नाम त्वं दैवोपहतासि, यत्सहकारच्छद्मानं विषपादपं द्वारि संवर्धयसि इति। विषपादपशब्देन लब्धायां सहकारस्य सर्वथैव कुत्सायां पादपविकासकाले कामिनामसह्यस्मरज्वरसन्निपातहेतुकत्वमेवास्याः कप्रत्ययेन प्रत्याय्यते। तदुक्तम्—(वाप. ३.१४.४—५)
कुत्सितत्वेन कुत्स्यो वा न सम्यग् वा विकुत्सितः।
स्वशब्दाभिहिते केन विशिष्टोऽर्थः प्रतीयते ॥ ३० ॥
न च साम्प्रतिकी कुत्सा शब्दाऽभेदे प्रतीयते ॥ ३१ ॥
पूज्यते कुत्सितत्वेऽपि प्रशस्तत्वेऽपि कुत्स्यते ॥ ३२ ॥