स हि व्याहरतु कथं हि व्याकरिष्यति, (निरुक्तम् १.५.५)
हे देवदत्त!, (काशिका ८.२.८५)
हये जाये मनसा तिष्ठ घोरे, (ऋवे. १०.१५.१)
अररे महाराजं प्रति कुतः क्षत्त्रियाः इति। (उराच. ४.२७/२८)
कथम्, यत्, यदि, यदा, जातु, अपि, यच्च, यत्रेति गर्हणार्थाः।
यथा— कथं नामाऽत्रभवान् वृषलं याजयेत्,