भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 431 to 440 of 595 verses
(न्यायमं.)

व्यतिषङ्गश्‍च प्रधानगुणभावे भवति।

साध्यं च साध्यमानत्वात् प्रधानमवगम्यते।

क्रियातो नापरं तच्च वाक्यार्थोऽतः क्रियेष्यताम्॥ ७४॥

यजेत दद्याज्जुहुयादधीयीतेति चोदितः।

क्रियां साध्यतया वेत्ति तां च लोकोऽनुतिष्‍ठति॥ ७५॥

(न्यायमं.)

यच्चाधिकारिपदं स्वर्गकाम इत्यादि तदपि भावनापेक्षितकर्तृसमर्पकत्वेन सङ्गच्छते। अस्यां क्रियायामयं कर्ता, अनेनैषा क्रिया संपाद्येति। न चात्र क्रिया प्राधान्यमुज्झति। न हि क्रिया कर्त्रर्था (न्यायम), कर्ता तु क्रियार्थः, स हि तां निर्वर्तयन्नुपलभ्येत। शब्दोऽपि तथैवोपदिशति एष इदं कुर्यादिति। किमर्थं पुनरसौ क्रियामनुतिष्‍ठतीति चेत् शब्दादेवेति ब्रूमः।

बुद्‍ध्वेदमेव भगवान् ददर्श खलु बादरिः।

न द्रव्यगुणसंस्कारव्यतिरिक्तोऽस्ति शेषता॥ ७६॥

Showing 431 to 440 of 595 verses