व्यतिषङ्गश्च प्रधानगुणभावे भवति।
साध्यं च साध्यमानत्वात् प्रधानमवगम्यते।
क्रियातो नापरं तच्च वाक्यार्थोऽतः क्रियेष्यताम्॥ ७४॥
यजेत दद्याज्जुहुयादधीयीतेति चोदितः।
क्रियां साध्यतया वेत्ति तां च लोकोऽनुतिष्ठति॥ ७५॥
यच्चाधिकारिपदं स्वर्गकाम इत्यादि तदपि भावनापेक्षितकर्तृसमर्पकत्वेन सङ्गच्छते। अस्यां क्रियायामयं कर्ता, अनेनैषा क्रिया संपाद्येति। न चात्र क्रिया प्राधान्यमुज्झति। न हि क्रिया कर्त्रर्था (न्यायम), कर्ता तु क्रियार्थः, स हि तां निर्वर्तयन्नुपलभ्येत। शब्दोऽपि तथैवोपदिशति एष इदं कुर्यादिति। किमर्थं पुनरसौ क्रियामनुतिष्ठतीति चेत् शब्दादेवेति ब्रूमः।
बुद्ध्वेदमेव भगवान् ददर्श खलु बादरिः।
न द्रव्यगुणसंस्कारव्यतिरिक्तोऽस्ति शेषता॥ ७६॥