शब्देष्वर्थदानाभिप्रायो विवक्षा।
यदाह— 'वक्तुर्विवक्षितपूर्विका शब्दप्रवृत्तिः' इति।
त्रिधा हि वाङ्मयम् अपौरुषेयम्, आर्षं, पौरुषेयं च। तत्र—
शब्दप्रधानम् अपौरुषेयं मन्त्रो ब्राह्मणं च। तत्र वक्तुरभावाद् विवक्षा नोपपद्यते। अर्थप्रधानम् आर्षं, स्मृतिरितिहासश्च। तत्र विवक्षामात्रं प्रवर्तते—(उराच. १.१०)
लौकिकानां हि साधूनां वागर्थमनुवर्तते।
ऋषीणां पुनराद्यानां वाचमर्थोऽनुवर्तते॥ ११८॥
(एतदुभय—)प्रधानम्१। (शास्त्रकाव्यादि)पौरुषेयम्।
(तच्)च तदुभयमप्यभिनिविष्टबुद्धीनां विशिष्टविवक्षाभ्यो जायते। तद्यथा— 'विवक्षातः कारकाणि भवन्ति'। अक्षान् दीव्यति अक्षैर्दीव्यति अक्षेषु दीव्यत(ति) इति, वलाहको विद्योतते, वलाहकस्य विद्योतत इति। (वाप. ३.७.२)
शक्तिमात्रासमूहस्य विश्वस्यानेकधर्मणः।