भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 471 to 480 of 1676 verses
इन्द्रनीलनिभः पृष्ठे क्रोडे कुमुदपाण्डरः।

गङ्गायमुनयोरेष सारङ्गस्सङ्गमोपमः॥ ९८॥

प्रकरणात् क्रियाविशेषभेदो यथा—(रघु. १२.४५)

एको दाशरथिः कामं यातुधानाः सहस्त्रशः।

ते तु यावन्त एवाजौ तावद्धा ददृशे स तैः॥ ९९॥

(४४. शक्त्यादिभेदः)

शक्तिः शक्तिव्यापारः क्रियाफलं क्रियासम्बन्धिनः सहचारिण इति शक्त्यादयः। तेषां वास्तव औपाधिको वा भेदेनावभासः शक्त्यादिभेदः। तत्र

वास्तवः शक्तिभेदो यथा— अग्‍निः काष्ठानि दहति, ओदनं पचति, पदार्थान् प्रकाशयति, सर्पिरग्‍निं दीपयति, पित्तं शमयति, शरीरमाप्याययतीति।

वास्तवः शक्तिव्यापरो यथा— आभ्यां लब्धम्; आभ्यां क्रीतम्, आभ्यां पक्‍वः, आभ्यां दत्तमित्यत्राभ्यामित्यस्य लब्धादिपदसन्निधेरपादानकरणकर्तृसम्प्रदान— विषयोऽभिधाव्यापारो भिद्यते। एवं पयः पयो जरयति (मभा. १.२.६४) इति कर्तृकर्मविशेषविषयः, गावौ गावौ श्रयेते इति स एव द्वित्वावच्छिन्नः, पयः(यांसि) पयोऽन्वेषयति इति बहुत्वैकत्वावच्छिन्नः। एवं कार्माधिकरणादिविषयोऽपि कुण्डे कुण्डे निधेहीत्यादिरवगन्तव्य इति।

वास्तवः क्रियाफलभेदो यथा— एकस्मिन्नेव यागे यजमानस्य धर्मः, ऋत्विजामर्थः, अन्नभुजां कामः, पशूनां मोक्षः; एकस्मिन्नपि सङ्ग्रामे भृत्यानां धर्मः, राज्ञामर्थः, क्रव्यादां कामः, अभिमुखहतानां मोक्ष इति।

Showing 471 to 480 of 1676 verses