लिङ्गमर्थः प्रकरणमौचित्यं देशः काल इति लिङ्गादयः। तेभ्यः सामान्यशब्दानां विशेषाध्यवसायो लिङ्गादिभेदः। स
लिङ्गाद् यथा— धेनुरानीयतां सवत्सा सबर्करा सकिशोरेति, गौरजा बडबा च प्रतीयते।
अर्थाद् यथा— अञ्जलिना सूर्यमुपतिष्ठते, अञ्जलिना पयः पिबति, अञ्जलिना लाजान् जुहोतीति अर्थानुरोधात् तथातथा पाणिसन्निवेशः प्रतीयते।
प्रकरणाद्यथा— सैन्धवमानय, गोपालकमानयेत्युक्ते भोजने लवणं, प्रयाणेऽश्वः, अध्यापने पुत्रः, पाशुपाल्ये तु गोपविशेषः प्रतीयते।
औचित्याद् यथा— करभोरूः शिखरदशना पुण्डरीकमुखी इति; उपमेयौचित्यात् करभादिशब्दैर्धनुष्कोटिकुन्दकुट्मल—कमलानि प्रतीयन्ते, नोष्ट्राचलाग्रच्छत्राणि।
देशतो यथा— हरिररण्ये, हरिर्द्वारकायां, हरिरमरावत्यामिति सिंहविष्णुवासवाः प्रतीयन्ते।
कालतो यथा— 'दिवा हस्तोऽयमित्युक्ते पाणिः प्रतीयते, न नक्षत्रम्, रात्रौ पतङ्ग इत्युक्ते शलभो, न सूर्यः, त्रेतायामर्जुन इत्युक्ते कार्तवीर्यो न कौन्तेय इति।
अस्य चोपलक्षणत्वात् साहचर्यादिभिरपि पदार्थावच्छेदो भवति। तद्यथा—
लक्ष्मणानुगतो भाति शशी राम इवापरः।
कौसल्येव बिभर्ति द्यौरभिषेकोज्ज्वलां श्रियम्॥ ९२॥