२६. धीरललितसाधारणदक्षिणोत्तमो यथा—(रत्ना. १.२०)
प्रत्यग्रमज्जनविशेषविविक्तमूर्तिः कौसुम्भरगरुचिरस्फुरदंशुकान्ता।
विभ्राजसे मकरकेतनमर्चयन्ती बालप्रवालविटापिप्रभवा लतेव॥ ९५॥
२७. धीरललितासाधारणशठोत्तमो यथा—(कुसं. ५.६१)
न वेद्मि संप्रार्थितदुर्लभः कदा सखीभिरास्त्रान्तरवीक्षितामिमाम्।
तपःकृशामभ्युपपत्स्यते सखीं वृषेव सीतां तदवग्रहक्षताम्॥ ९६॥
२८. धीरललितसाधारणशठोत्तमो यथा—
निर्मग्नेन मयाम्भसि स्मरभरात् पाली(आली) समालिङ्गिता केनालीकमिदं तवाद्य कथितं राधे! मुधा ताम्यसि।
इत्युत्स्वप्नपरम्परासु शयने श्रुत्वा गिरं शार्ङ्गिणः सव्याजं शिथिलीकृतः कमलया कण्ठग्रहः पातु वः॥ ९७॥
२९. धीरललितासाधारणधृष्टोत्तमो यथा—(कुसं. ५.८४)