केयं मू्र्ध्न्यन्धकारे तिमिरमिह कुतः सुभ्रु! कान्तेन्दुयुक्ते॥ ८८॥ (पृ. ५५५)
२०. धीरललितधृष्टोत्तमो यथा—(रत्ना. ४.१)
सव्याजैः शपथैः प्रियेण वचसा चित्तानुवृत्त्याऽधिकं वैलक्ष्येण परेण पादपतनैर्वाक्यैः सखीनां पुनः।
प्रत्यापत्तिमुपागता मयि तथा देवी रुदत्या यथा प्रक्षाल्येव तयैव बाष्पसलिलैः कोपोऽपनीतः स्वयम्॥ ८९॥
२१. धीरललितासाधारणोत्तमो यथा—
आघूर्णद्वपुषः स्खलन्मृदुगिरः किञ्चित्स्खलद्वाससो रेवत्यंसनिषण्णनिस्सहभुजस्याताम्रनेत्रद्युतेः ।
श्वासामोदमदान्धषट्पदकुलव्यालुप्तकण्ठस्त्रजः पायासुः परिमन्थराणि हलिनो मत्तस्य यातानि वः॥ ९०॥
२२. धीरललितसाधारणोत्तमो यथा—
कालिन्दीजलकुञ्जवञ्जुलवनच्छायानिषण्णात्मनो राधाबद्धनवानुरागरसिकस्योत्कण्ठया गायतः।