गोरोचनाहरितबभ्रुबहिःपलाशम् आमोदते कुमुदमम्भसि दीर्घिकायाः॥ ९४॥
कालोऽप्यनेकधा, रात्रिदिवार्कोदयपूर्वाह्णमध्यंदिनापराह्णसायाह्नास्तमयसन्ध्या— निशामुख—तमः—प्रदोषचन्द्रोदयचन्द्रिकानिशीथापररात्ररात्रिपरावृत्तिप्रभातादिभेदात्।
नीयन्ते दिवसप्रतप्तकटकग्रावोष्मगाढक्वथ— त्प्रारम्भाः पथिकैः क्लमव्युपरमत्तापा गिरिग्रामके।
नैदाघ्ये कमलाग्रकुड्मलभिदः पश्चार्धशीतानिल— प्रत्याश्वस्तमयूरनादसुभगा दण्डोदरा रात्रयः॥ ९५॥
विष्वग्वातविकीर्णशीकरकणासाराः स्फुरद्—विद्युत्— स्तत्कालप्रतिबुद्धकेतकशिखागण्डो/गन्धोपदिग्धाम्बराः।
दात्यूहप्रसरप्रणादितदिशः पान्थप्रियाणाममू— रुन्मथ्नन्ति मनांसि मांसलघनध्वानोत्तरा रात्रयः॥ ९६॥