एतस्मिन् मदकलमल्लिकाक्षपक्षव्याधूतस्फुरदुरुदण्डपुण्डरीकाः।
बाष्पाम्भःपरिपतनोद्गमान्तराले संदृष्टाः कुवलयिनो मया विभागाः॥ ८८॥
निःश्वासैरधिवासिता मधुरिपोः कल्पान्तनिद्रासु ये यैर्मन्थश्रममन्थराः फणिपतेर्धौताः फणाभित्तयः।
तेऽमी कुञ्जरकुम्भपीठलुठनक्षोभोच्चलच्छीकराः कल्लोलाः कुलशैलकोटिविकटाः स्त्रोतःपतेः पातु वः॥ ८९॥
मीलत्तालीतमालस्तबकतरुतलस्रस्तरस्रस्तचञ्चद्— गुञ्जाकाञ्चीकलापप्रकटीतशबरीमोहनस्पष्टधार्ष्ट्या ।
येनामुच्यन्त मोचा—लिकुच—कवचिताः प्राञ्चटा(?) प्रत्युदीचीं कृच्छ्रादुच्छ्रायकूजत्कुररपरभूताः पश्चिमाम्भोधिकच्छाः॥ ९०॥
वापीरमणीयता यथा—(मेघ. ७४)