धुनाना मूर्धानं गलबिल—लसत्स्फारशफर— स्फुरत्पुच्छानच्छ—व्यतिकर—सबाष्पारुणदृशः ॥ ८४॥
सरिद्रमणीयं(यता) यथा—(उराच. २.२१)
इह समदशकुन्ताक्रान्तवानीरवीरुत्प्रसवसुरभिशीतस्वच्छतोया वहन्ति।
फलभरपरिणामश्यामजम्बूनिकुञ्जस्खलनमुखरभूरिस्रोतसो निर्झरिण्यः॥ ८५॥
इह बहुलविसर्पद्वालुकालङ्घिवल्ली— वलयहरितकी/तीरक्षेत्रलेखा वहन्ति।
दिनपरिणतिमज्जत्पामरीपीनतुङ्ग — स्तनतरलितबद्धाः(न्धाऽऽ)सन्नतोयास्स्रवन्त्यः॥ ८६॥
तृषा किमिति ताम्यसि व्रज मनागिदानीमितः स्थितः पथिकसीमनि त्वमसि मारवीणां भुवाम्।
न पश्यसि पुरः स्फुरच्छफरजालहेलावल— त्तरङ्गरिमार्चि(र्जि)तत्रिदशमार्गमग्रे सरः॥ ८७॥