३. उन्नतं पूर्णं/घूर्णं ; यथा—(गास. १.९६)
णासं व सा कओले अज्ज वि तुह दंतमंडणं/लं बाला।
उब्भिण्णपुलअवइ—वेढपरिगअं रक्खइ वराई॥ ८२॥
(न्यासमिव सा कपोले अद्यापि तव दन्तमण्डनं बाला।
उद्भिन्नपुलकपरिवृतिवेष्टनपरिगतं रक्षति वराकी॥)
४. स्फुरितं कम्पितं ; यथा—
एकत्रासनसंस्थिते प्रियतमे पश्चादुपेत्यादरात्॰॥ ८३॥
५. संकुचितं कुञ्चितं ; यथा—
मा अद्दलसाअडिरीए संकुइअगंडपासाए।