ततोऽनुकुर्याद् विशदस्य तस्यास्ताम्रोष्ठपर्यस्तरुचः स्मितस्य॥ ८६॥
२. दृष्टदशनकान्ति हसितं ; यथा—
तिमिरनिरुद्धभीमरजनीमुखचन्द्रिकया गणपतिताण्डवाभिनयदर्शनदीपिकया।
अभिभवसि त्वमद्य शशिनः श्रियमुत्कटया दशनमयूखमञ्जरितया हसितप्रभया॥ ८७॥
३. तदेव किञ्चित्सविशेषं विहसितं; यथा—
च्युतामिन्दोर्लेखां रतिकलहमग्नं च वलयं समं चक्रीकृत्य प्रहसितवती शैलतनया।
अवोचद् यं पश्येत्यवतु स शिवः, सा च गिरिजा, स च क्रीडाचन्द्रो दशनकिरणापूरिततनुः॥ ८८॥
४. तदेव सोत्प्रासमुपहसितं; यथा—
स एष भुवनत्रयप्रथितसंयमः शङ्करः॰॥ ८९॥