हसितं(अं)अधोमुहीए किं वरअं संभरन्तीए॥ ८४॥
(मा आर्द्रालसादराया सङ्कुचितगण्डपाशायाः।
हसितमधोमुख्याः किं वरकं संस्मरन्त्याः॥)
६. प्रकृतिस्थं समं ; यथा—(सूमु. ९६/९७)
पायात् पयोधिदुहितुः कपोलामलचन्द्रमाः।
यत्र संक्रान्तबिम्बेन हरिणा हरिणायितम्॥ ८५॥
अथ हासारम्भाः — स्मितं, हसितं, विहसितम्, उपहसितम्, अपहसितम्, अतिहसितं चेति।
१. ईषद्धसितं स्मितं; यथा— (कुसं. १.४४)
पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम्।