तद् भूयः शिशुशुकशारिकाभिरुक्तं धन्यानां श्रवणपथातिथित्वमेति॥ ७७॥
९. धीरललितासाधारणानुकूलो यथा—(मामा. १.३९)
जगति जयिनस्तेते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये।
मम तु यदियं याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः॥ ७८॥
१०. धीरललितसाधारणानुकूलो यथा—(विक्र. १.२०)
एषा मनो मे प्रसभं शरीरात् पितुः पदं मध्यममुत्पतन्ती।
सुराङ्गना कर्षति खण्डिताग्रात् सूत्रं मृणालादिव राजहंसी॥ ७९॥
११. धीरललितासाधारणदक्षिणो यथा—(कुसं. ८.४८)
तन्मुहूर्तमनुमन्तुमर्हसि प्रस्तुताय नियमाय मां प्रति।
त्वां विनोदनिपुणः सखीजनो वल्गुवादिनि! विनोदयिष्यति॥ ८०॥