वासः सम्प्रति केशव! क्व भवतो मुग्धेक्षणे! नन्विदं वासं ब्रूहि शठ! प्रकामसुभगे त्वद्गत्रसंश्लेषतः।
यामिन्यामुषितः क्व धूर्त! वितनुर्मुष्णाति किं यामिनी? शौरिर्गोपवधूं छलैः परिहसन्नेवंविधैः पातु वः॥ ७४॥
६. धीरललितधृष्टो यथा—(रत्ना. २.१७)
दृष्टिं रुषा क्षिपसि भामिनि! यद्यपीमां स्निग्धेयमेष्यति तथाऽपि न रूक्षभावम्।
त्यक्त्वा त्वरां व्रज तव स्खलितैरयं हि खेदं करष्यिति गुरुर्नियतं नितम्बः॥ ७५॥
७. धीरललितासाधारणो यथा—(कुसं. ३.२३)
स माधवेनाभिमतेन सख्या रत्या च साशङ्कमनुप्रयातः।
प्रान्तेषु संसक्तनमेरुशाखं स्थाण्वाश्रमं हैमवतं जगाम॥ ७६॥
८. धीरललितसाधारणो यथा—(रत्ना. २.८)
दुर्वारां मदनशरव्यथां वहन्त्या कामिन्या यदभिहितं पुरः सखीनाम्।