२. धीरललितमध्यमो यथा—(विक्र. ३.१९)
सामन्तमौलिमणिरञ्जितशासनाङ्कमेकातपत्रमवनेर्न तथा प्रभुत्वम्।
अस्याः सखे! चरणयोरधिगम्य कान्तमाज्ञाकरत्वमहमद्य यथा कृतार्थः॥ ७१॥
३. धीरललितानुकूलो यथा—(र. ३.५)
न मे ह्निया शंसति किंचिदीप्सितं स्पृहावती वस्तुषु केषु मागधी।
इति स्म पृच्छत्यनुवेलमादृतः प्रियासखीरुत्तरकोसलेश्वरः॥ ७२॥
४. धीरललितदक्षिणो यथा—(रत्ना. १.२२)
अनङ्गोऽयमनङ्गत्वमद्य निन्दिष्यति ध्रुवम्।
यदा तेन तु संप्राप्तः पाणिस्पर्शोत्सवस्तव॥ ७३॥