भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 231 to 240 of 1849 verses
अलिहिअदुप्परिअल्लं पि णेइ रण्णं धणुं वाहो॥ ६५॥

(नववधूप्रेम तनूकृतः प्रणयं प्रथमगृहिण्या रक्षन्।

अलिखित/अतनूकृतं दुष्परिपाल्यदुराकर्षंमपि नयत्यरण्यं धनुर्व्याधः॥)

४१. धीरोद्धतासाधारणशठकनिष्ठो यथा—(वेसं. २.१३)

दिष्ट्याऽर्धश्रुतविप्रलब्धवचनक्रोधादहं नो गतो दिष्ट्या नो परुषं रुषार्धकथिते किञ्चिन्मया व्याहृतम्।

मां प्रत्याययितुं विमूढहृदयं दिष्ट्या कथान्तं गता मिथ्यादूषितयाऽनया विरहितं दिष्ट्या न जातं जगत्॥ ६६॥

४२. क्षीरोद्धतसाधारणशठकनिष्ठो यथा—(अमरु. ६०)

लाक्षालक्ष्म ललाटपट्टमभितः कोयूरमुद्रा गले वक्त्रे कज्जलकालिमा नयनयोस्ताम्बूलरागोऽपरः।

दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसः क्रीडातामरसोदरे मृगदृशः श्वासाः समाप्‍तिं गताः॥ ६७॥

४३. धीरोद्धतासाधारणधृष्टकनिष्ठो यथा—(वेसं. २.१६)

Showing 231 to 240 of 1849 verses